SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ [है. ६.२.९९.] पञ्चदशः सर्गः। २५१ हव्यैस्तार्णबिन्दवीयैः शुक्रियैः शतरुद्रियैः । तत्रातिशतरुद्रीयापांनप्त्रीयैश्च सोयजत् ॥ १०६ ॥ १०६. स राजा हव्यैः कृत्वा तत्र ऋतुध्वयजदजुहोत् । किंभूतैः । तार्णबिन्दवीयैस्तार्णविन्दवदेवतैः शुक्रियैः शुक्रदेवतैः । शतरुद्रियै रुद्रशर्तदेवतैः । अतिशतरुद्रीयापानप्वीयैश्चातिशतरुद्रीयाणि शतरुद्रदेवत. हव्येभ्योतिशायीनि यान्यपानप्त्रीयाण्यपानपाद्देवविशेषदेवतानि तैश्च ॥ अपोनप्त्रीयकैः सूक्तैः साध्वपोनप्त्रियं द्विजैः । महेन्द्रियं महेन्द्रीयैर्यज्ञेय जुहुवे हविः ॥ १०७ ॥ १०७. अस्य जयसिंहस्य यज्ञे द्विजैर्यज्वभिरपोनप्वियमपोनपादेवविशेषदेवतं हविः साधु विधिवजुहुवेनौ हुतम् । कैः कृत्वा । अपोनप्वीयकैरपोनपादधिष्ठार्तृदेवतैः सूक्तैर्मत्रैः । तथा महेन्द्रियं महेन्द्रदैवतं हविर्महेन्द्रीयैर्महेन्द्राधिष्ठातृदेवतैः सूक्तैर्जुहुवे ॥ अपांनप्त्रियमाहेन्द्रकायसौम्येषु कर्मसु । द्विजानां संशयं जातं सुधीः स स्वयमच्छिनत् ॥ १०८ ।। १०८. स्पष्टः । किं त्वपांनप्वियमाहेन्द्रकायसौम्येषु कः प्रजापतिः सोमश्चन्दुर्देवता येषां तानि कायानि सौम्यानि च ततश्वतुष्पदे विशेषणद्वन्दे तेषु । अपांनपादादीनुद्दिश्योक्तेष्वित्यर्थः । कर्मसु यागक्रियासु विषये जातं संशयम् । यतः सुधीः सर्वशास्त्रज्ञः ।। ___ आग्रहायणिक । आश्वस्थिक । इत्यत्र “आग्रहायणी०" [ ९९] इत्यादिनेकण ॥ १ सी सोजयत्. १बी वजयाद. सी वजयद. २ ए तदैव'. ३ ए नपोनप्तीयकैः. ४ बी सी तृदैव. ५ सी हेहवैवं. ६ बीन्द्रवैव. ७ ए सी श्चेदुर्दे'. ८ सी कण्वा । ऐ',
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy