________________
[ है. ६.३.९९.] पञ्चदशः सर्गः ।
२४९ नडकीय । प्लक्षकीय । इत्यत्र "नडादेः कीयः" [ ९२ ] इति कीयः ॥ कार्शाश्वीय । आरिष्टीय । इत्यत्र “कृश०” [ ९३ ] इत्यादिनेय ॥
ऋश्यकादश्मकाद्वाराहकात्पालाशकादपि । देशात्कुमुदिकादिक्कटिकादाश्वथिकाच्च ये ॥ १०१॥ एत्य कौमुदिकादन्यदेशाद्वातं ययाचिरे।
अदारिद्यान्स तांश्चके वर्षनाषाढवन्नृपः॥१०२॥ १०१, १०२. स्पष्टौ । किं त्विक्कटिकादिक्कटॉः शूराः पुरुषा वृक्षभेदा वान सेन्तीकटिकं देशः पुरं वा तस्मात् । वर्षन्नाषाढवदाषाढाभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमास्याषाढी सा पौर्णमास्यस्या(ढो मासो यथा जलं वर्षत्येवं द्रव्यं वर्षन्द॑ददित्यर्थः । आषाढे हि वर्षासांनिध्यान्मेघा वर्षन्ति तत्संबन्धादाषाढोपि वर्षन्नुच्यते ॥
ऋश्यकात् । अश्मकात् । इत्यत्रं "ऋश्यादेः कः' [ ९४ ] इति कः ॥ वाराहकात् । पालाशकात् । इत्यत्र “वराहादेः कण्" [ ९५ ] इति कण् ॥ कुमुदिकात् । इक्कटिकात् । इत्यत्र “कुमुदादेरिकः" [ ९६ ] इतीकः ॥ आश्वस्थिकात् । कौमुदिकात् । अत्र “अश्वत्थादेरिकण्" [ ९७ ] इतीकण् ॥ आषाढ । इत्यत्र “सास्य." [ ९८ ] इत्यादिनाण् ॥
चैत्रकार्तिकिकाश्वत्थिकेन्दुवत्तीणतो जगत् । आग्रहायणिकोषेव तस्स कीर्तिरवर्धत ॥ १०३ ॥
१
१ए दस्सका'. २ एपि। दशा.३ ए कात्त ये. ४ ए तिकका' सीर्तिकाका.
१ एकीयः । प्ल. २.सी वीयः । आपिष्टी'. ३ ए ग् । कश्य. ४ बी 'राः सूराः. ५ सी सन्ति क. ६ ए पाढे मा. ७ ए वर्षात्य. ८ एन्ददि. ९ सी पंचमुच्य. १० ए "ते कश्य. ११ बी अस्सका. १२ ए सी °त्र कश्या.
३२