SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४८ व्याश्रयमहाकाव्ये [ जयसिंहः ] त्तेयौ प्रामौ । द्वन्द्वे एतत्तुल्यश्रीकान् । तथा लोमान्यत्र सन्ति लौमं पुरं पंथां निवासः पान्थायनो ग्रामस्तयोस्तुल्यांश्च ॥ स पाक्षायणवासिष्ठायनिकायनिद्विजैः । दत्ताशीः प्रास्थित स्थानात्संकरीयोत्करीयभात् ॥ ९९ ॥ ९९. स जयसिंहः स्थानात्सिंहपुराँत्प्रास्थित । कीहक्सन् । पाक्षायणादिदेशविशेषाणां द्विजैर्दत्ताशीः । किंभूतात्स्थानात् । संकरेणोत्करेण च निवृत्तौ संकरीयोत्करीयौ पुरभेदौ तद्वच्छ्रिया भाति यत् "क्वचिद्" [५.१. १७१ ] इति डः। तस्मात् ।। बल्य । चुल्य । इत्यत्र "वलादेर्यः" [ ८६ ] इति यः ॥ आह्न । लौम । इत्यत्र "महरादिभ्योज्" [ ८७ ] इत्यञ् ॥ साखेय । साखिदत्तेय । इत्यत्र "सख्यादेस्यण्" [ ८८ ] इत्येयण् ॥ पान्थायन । पाक्षायण । इत्यत्र “पन्ध्यादेरायनण्" [ ८९] इत्यायनण् ॥ कार्णायनि । वासिष्ठायनि । इत्यत्र “कर्णादेरायनिन्" [ ९० ] इत्यायनिञ् ॥ उत्करीय । संकरीय । इत्यत्र “उत्करादेरीयः" [ ९१] इतीयः ॥ नडकीयप्लक्षकीयकाश्विीयपुरेश्वरैः । सोन्वीयमानः स्वपुरी प्रापारिष्टीयसंपदम् ॥ १०० ॥ १००. स्पष्टः । किं तु कृशाश्वेन राज्ञा निर्वृत्तं काश्विीयम् । आरिष्टीयसंपदमरिष्टा निम्बाः फेनिलवृक्षा वात्र सन्त्यारिष्टीयं पुरं तत्तुल्यर्द्धिका स्वपुरी पत्तनम् ।। १ए पन्था.नि. २ ए वासाः पन्था'. ३ ए मस्तु. ४ सी रात्स प्रास्थि. ५ ए स्थितः । की. ६ बी सी निवृत्तौ. ७सी रीयौ. ८ बी त्। वुल्य. ९ बी आहः । लो. १० बी पन्थादे'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy