SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ 2 ~ [है. ६.२.७५.] पञ्चदशः सर्गः । २४५ शिरीषिकेशहस्तेन रत्नैः शार्करिकेङ्गणे । शार्करादागतः शर्करीयेदं पुष्पाण्यथार्पयत् ॥ ९३ ॥ ९३. शर्करीयेट शर्कराः क्षुद्रपाषाणास्तद्वतो देशस्य स्वामी शिरीषिकेशहस्तेन शिरीषिकदेशराजपाणिना कृत्वा पुष्पाणि श्रीनाभेयपूजार्थं जयसिंहायार्पयत् । कीदृक् । अङ्गणे देवगृहाङ्गणे वर्तमानः । किंभूते । रत्नैः कृत्वा शार्करिके शर्करावद्देश इव कर्करैरिवं रुल्लल(वोल्लस?)द्भिमणिभिराकीर्ण इत्यर्थः । तथा शार्कराच्छर्करावद्देशादागतः ॥ पुष्पांद्युपायनं दैवान्येपि शर्करिकेशवत् । गहरे भूभुजस्तस्थुरद्रेः शार्करकाश्मरे ॥ ९४ ॥ ९४. शर्करिकेशवद्यथा शर्करावद्देशस्वामी नाभेयपूजार्थं पुष्पाद्यादिपदादाभरणादि जयसिंहस्य ददावेवमन्येपि भूभुजः पुष्पादि पूजार्थ दत्वाद्रेः शत्रुञ्जयस्य गहरे गह्वा दुरवगाहाः प्रदेशा अत्र सन्ति गह्वरं वनगहनं तत्र तस्थुर्जयसिंहं प्रतीक्षमाणाः स्थिताः। किंभूते । शार्करकाश्मरे शर्करायुक्ते पाषाणयुक्ते च ।। नड्वत् । कुमुद्वत् । वेतस्वत् । माहिष्मती । इत्यत्र “नड०" [७४ ] इत्या. दिनों डिन्मतुः ॥ नड्वल । शाद्वलिनि । इत्यत्र “नड." [७५] इत्यादिनी डिद्वलः ॥ १ सी ट् शर्कराः. २ ए पाद्यपा. २ ए दत्तान्ये'. ४ सी त्वा द्रेः शत्रु. १ सी °षाणस्त. २ बी °णात'. ३ ए रीषेके'. ४ बी सी केसह. ५ ए षिके दे'. सी षिकिदे'. ६ ए सिंह स्यार्प. ७ ए °व सलद्भि'. सी धरुल्लद्भिः. ८ ए शाग . ९ बी सिंहप्रतीक्ष्यमा'. १० ए तीक्ष्यमा . ११ ए 'करिका. १२ सी क्ते च. १३ सी ना इकण्-ईय-अण्. १४ ए बी शाङ्कलि'. १५ ए सी ना डुलः. ..
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy