SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये औदुम्बर । इत्यत्र " तदत्रास्ति” [ ७० ] इत्यण् ॥ कौशाम्बी । इत्यत्र “तेन० " [ ७१ ] इत्यादिना ॥ दुमती । इत्यत्र " नद्यां मतुः " [ ७२ ] इति चातुरर्थिको मतुः ॥ मधुमत् । विसवत् । इत्यत्र "मध्वादेः " [ ७३ ] इति चातुरर्थिको मतुः ॥ नवत्कुमुद्वद्वेतख च्छाद्वलिन्यद्रिमूर्धनि । नाभेय चैत्यं सोपश्यद तिमाहिष्मतीपतिः ।। ९१ ॥ २४४ ९१. स राजाद्रिमूर्धनि नाभेयचैत्यं श्री ( श्रि ? ) ऋषभदेवभवनमपश्यत् । किंभूते । नवन्तो नडाख्यतृणभेदयुक्ताः कुमुद्वन्तः कैरवयुता वेतस्वन्तो वेतसवृक्षयुक्ताः शाङ्क (द्व) ला शादः पकैः सस्यं वा तद्युक्ताश्च प्रदेशा अत्र सन्ति तस्मिन् । कीदृक्सः । अतिमाहिष्मतीपतिर्महिष्मान्देशस्तस्यादूरभवा पुरी माहिष्मती तस्याः पतिः सहस्रार्जुनस्तं बलादिनातिक्रान्तः ॥ सोविशत्तत्र रत्नांशुनवलायित भूतले । द्वारि मुञ्चपं कशिखावलमहीपती ।। ९२ ॥ [ जयसिंहः ] ε 1 ९२. स राजा तत्र नाभेय चैत्येविशत् । किंभूते । रत्नांशुभिः कृत्वा नवलायितं नडाख्यतृणभेदान्वितप्रदेशतुल्यं भूतलं यत्र तस्मिन् । कीदृक्सन् । द्वारि चैत्यसिंहद्वारे जिघांसया शत्रूणां छलेन प्रवेशस्य रक्षार्थं शैरीषको ग्रामः शिखावलं पुरं तयोर्महीपती मुञ्चस्थापयन् ॥ १ बी इयदिति'. २ बी शि. ३. बी 'खाबल'. १ व कौशम्बी. सादः . ५ बी कः शस्यं. " पतीर्मुचन्स्था. सी पति मु. ६ २ एसी भेयं चै'. ३ ए बी युक्ता कु .. बी सी चैत्ये सिं. ९ ए सी न् । शरी°. ७ सी 'क्षार्थशै. → ४ ए श्व ८ बी
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy