________________
[ है. ६.२.७०.] पञ्चदशः सर्गः ।
२४३ ८८. स्पष्टः । किं तु ताायणस्य राज्ञो राष्ट्रं ताायणभक्तमे (मै)पुकारीणां राष्ट्रमैषुकारिभक्तं द्वन्द्वे तदादीनां राष्ट्राणां पार्थिवैः समं सह ॥
से भौरिकिविधं भौलिकिविध शैवे(?)वैदिशे ।
भोक्तृभिः सह धर्मज्ञैल्पञ्शत्रुञ्जयं ययौ ॥ ८९ ।। ८९. स्पष्टः । किं तु भौरिकीणां राज्ञां राष्ट्रं भौरिकि विधमेवं भौलिकिविधं शिवीनां शिवानां वा राज्ञां निवासः शैवो देशो विदिशाया अदूरभवं वैदिशं नगरं द्वन्द्वे ते च भोक्तृभिर्नु पैः सह जल्पन्धमकथां कुर्वन् यतो धर्मज्ञैः ॥
भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्त । ताायणभक्त । इत्यत्र "भौरिकि०" [ ६८ ] इत्यादिना यथासंख्यं विधभक्तौ प्रत्ययौ ।। शैव(ब?) । वैदिशे । अत्र “निवास०" [ ६९ ] इत्यादिनाण् ॥
सहौदुम्बरकौशाम्बीदुमतीमधुमन्नृपः ।
सोध्यास्त विसवन्नाथदत्तहस्तोथ तं गिरिम् ॥ ९० ॥ ९०. उदुम्बरा वृक्षा अत्र सन्त्यौदुम्बरं पुरम् । कुशाम्बेनर्पिणा निर्वृत्ता कौशाम्बी पुरी । द्रुमती नदी । मधून्यत्र सन्ति मधुमान्देशो द्वन्द्वे एषां नृपैः सह स जयसिंहस्तं गिरिमध्यास्त । कीदृक्सन् । विसवान्देशस्तन्नाथेन राज्ञा दत्तहस्तः ॥
१ बी स भैरि'. २ बी ववेदि. ३बी द्रुमंती'. ४ ए रि । उ. सी "रि । औदु.
१ए तार्थाय . २ सी °णसक्तं रा'. ३ ए ताशेय. ४ सी जैः । भूरिकवि'. ५ वी रिकवि'. ६ बी लिकवि'. ७५ शाम्बीपुरद्ध.