________________
२४२
ब्याश्रयमहाकाव्ये
[ जयसिंहः]
__ अविसोढाः । अविदूसम् । अविमरीसानि । इत्यत्र "अवे०" [ ६४ ] इत्यादिना सोढदूसमरीसाः ॥
शैवे(वे?) राष्ट्रेथ वङ्गानामङ्गानामाङ्गवाङ्गयोः । परतोपि स्फुरेदाज्ञा तस्य यस्त्वयि भक्तिमान् ॥ ८६ ॥ ८६. हे देवं यस्त्वयि भक्तिमांस्तस्याज्ञा शैवे शिवीनां राज्ञां सक्ते राष्ट्र देशे तथा वङ्गानामङ्गानां च राज्ञां राष्ट्रे तथाङ्गवाङ्गयोः परतोप्यङ्गवङ्गराष्ट्राभ्यां परस्मिन्नपि राष्ट्रे स्फुरेन् । स सार्वभौमः स्यादित्यर्थः ।।
शैवे(?) राष्ट्रे । अत्र “राष्ट्रे०" [ ६५ ] इत्यादिनाण् ॥ अनङ्गादिभ्य इति किम् । अङ्गानां राष्ट्र। वङ्गानां राष्ट्र ॥ केचित्त्वङ्गादिप्रतिषेधं नेच्छन्ति । आङ्गवाङ्गयोः ॥
देवयातवके राजन्यके वासातकेपि च ।
वासातस्य परस्ताच शासनं जयतीश ते ॥ ८७ ॥ ८७. हे ईश तव शासनमाज्ञा देवयातवानां राजन्यानां वसातीनां च राज्ञां राष्ट्रेपु वासातस्य परस्ताच्च जयति । सर्वेष्वपि देशेषु नृपा लोकाश्च तवाज्ञां कुर्वन्तीत्यर्थः ॥ राजन्यके । देवयातवके । अत्र “राजन्य." [ ६६ ] इत्यादिनाकञ् ॥ वासातके वासातस्य । इत्यत्र “वसातेर्वा" [ ६७ ] इति वाकञ् ॥
नेमि स्तुत्वेति पौलस्त्यं विसृज्यावातरत्समम् । स ताक्ष्यायणभक्तपुकारिभक्तादिपार्थिवैः ॥ ८८ ।।
१ए दे गंगानामाङ्ग. २ ए तो स्फु. ३ ए बी ताक्षायणभक्तेपु.
१ सी विदू. २ बीमाः । शौवे. ३ बी वस्त्व. ४ वी गवङ्ग. ५५ सी यः । शौवे. ६ बी ई. ७ए सी । के. ८ बीजन ई.