________________
व्याश्रयमहाकाव्ये
जयसिंहः ]
घिग्निष्फलत्वाद्गर्हामहे यतस्त्वामदेवबुद्ध्या निन्दताम् । किंभूतम् ।
अपि करामलकवत्करस्थामलकीफलमिव जगत्केवलज्ञानेन पश्यन्तम् ॥
२४०.
भामलक । इत्यत्र “फले" [ ५८ ] इत्यणो मयटो वा लुप् ॥
प्लाक्षाश्वत्थ । इत्यत्र "लक्षादेरण” [ ५९ ] इत्यण् ॥
जाम्बव जम्बू । अत्र "जम्ब्वा वा " [ ६० ] इति वाण् । पक्षे लुप् ॥
त्वयि भक्तस्तद्धित॑वद्भूयोप्यङ्गविकारतः ।
भवेन्न हि भवे जन्तुर्जगदेकदयानिधे ॥ ८२ ॥
४
८२. हे जगदेकदयानिधे त्रिभुवनमध्ये दयाया एकस्थान श्रीनेमे त्वयि भक्तो जन्तुरङ्गविकारतोङ्गमेव योसौ विकार आत्मनोविभिन्नत्वेन विकृतिस्तेन आयादित्वात्तसु । [७२.८४ ] शरीररूपेण विकारेण भूयोपि भवे न हि भवेत् त्वद्भक्त्यापुनर्भवावाप्तेः पुनः संसारे न जायेतेत्यर्थः । तद्धितवदिति । अङ्केति कोमलामन्त्रणे । यथा विकारतो विकारेर्थे कपोतस्य विकारोवयवो वा कापोतः । कापोतस्य विकारोवयवो वेत्यादौ पुनरपि तद्धितो “दोरप्राणिनः” [ ६. २. ४९. ] इत्यादिना मयडादिस्तद्धितप्रत्ययो “न द्विरदुवय०" [ ६.२.६१ ] इत्यादिना निषेधान्न स्यात् ॥
त्वदाकृष्यान्यतश्वेतो नयेद्यः स कुधीः क्षिपेत् । कापित्थं द्रौवयात्पात्राद्रसं भस्मनि गोमये ॥ ८३ ॥
१ बी 'तभूयो' सी 'तद्भू २ ए 'योग्यङ्ग ं. ३ बी सी 'नि गौम
१ सी निन्दिता. २ बी 'श्यन्ताम् . ३ सी वायोप्यंगविकारित .. ४ सी श्रीभूयेपि. ५ए नेमि त्व'. ६ बी सी जायतेत्य'.