________________
[है. ६.२.५८.] पञ्चदशः सर्गः।
२३९ अथ सोस्तौदिति स्वामिन्यः शमिच्छेत्त्वदन्यतः। विहाय बदरी मूलैर्धन्वैरण्डैः करोति सः॥ ८०॥ ८०. स्पष्टः । किं तु त्वदन्यतस्त्वत्तोन्यस्माद्देवात्सकाशाच्छं स्वर्गापवर्गादिसुखं यो देवबुद्ध्याश्रयणेनेच्छेत् । बदरी महासारत्वेन धनुदण्डयोग्यं बदरस्य विकारं वृक्षम् । यथासारत्वादेरण्डविकारैर्मूलैधनुर्न स्यात्तथा त्वत्तोन्यस्माद्देवाच्छं न स्याद्रागद्वेषकलुषात्मत्वेनेतरजनतुल्यतया स्वर्गापवर्गसुखदानेसमर्थत्वादित्यर्थः ॥
भाप्यै(प्यैः ) । अश्म(म्म )य । इत्यत्र "अपो यन्वा" [५६ ] इति वा यम् ॥
मल्लिकाभिः । मुस्ता । इत्यत्र "अभक्ष्य.” [ ६. २. ५६ ] इत्यादिना कृतस्थाणो मयटो वा "लुब्०" [५७ ] इत्यादिना लुप् ॥ क्वचिन्न स्यात् । धारणैः । ऐरण्डैः ॥ क्वचिद्विकल्पः । शिरीष शैरोषैः । होवेर हैचेरैः । क्वचित्पुप्पमूलाभ्यामन्यत्रापि । बदरीम्॥
त्वां जम्बूश्याम पश्यन्तं करामलकवजगत् । निन्दतां धिग्वतं प्लाक्षाश्वत्थजाम्बवभोजिनाम् ॥ ८१ ॥ ८१. हे जम्बूश्याम जम्बूतरुफलवत्कृष्णाङ्ग नेमे प्लाक्षाश्वत्थजाम्बवभोजिनां महातपस्वित्वेन धान्यानाहारकत्वात्प्लक्षपिप्पलजम्बूवृक्षफलभोजिनां वनेवासितापसानां व्रतं धान्याभोजनादिरूपं दुष्करं नियम
१ बी सी न्यः समि'. २ ए लैध्वनैर'.
१ बी त्वाद्देर. २ बी यः । अप्यै. ३ बी सी असाय. ४ सी भक्षेत्या. ५ ए सी णैः । एर. ६ ए सी 'रीषः शै'. ७ ५ वेरी हीवे. ८ बी र हीवे. ९ सी शाम. १० ए वनिवा.