________________
द्व्याश्रयमहाकाव्ये
[ जयसिंहः ]
कांस्य । इत्यत्र “कसीयायः" [ ४१] इति न्यः ॥ हाटकैनिप्कैः । अत्र "हेम." [ ४२] इत्यादिना ॥ दुवय । इत्यत्र "द्रोर्वयः" [ ४३ ] इति वयः ॥
शतिकान्द्विशतान्हमात्राजतानपि केचन । सुवर्णमयपद्मार्चान्पूर्णकुम्भानसजयन् ॥ ७० ॥ ७०. केपि नृपा हैमान्स्वर्णविकारांस्तथा राजतानपि रूप्यमयांश्च पूर्णकुम्भानिक्षुरसघृतदुग्धदधिसुरभिवारिसंपूर्णकलेशानसज्जयन् । किंभूतान् । शतिकान्द्विशतांचं हेनो रजतस्य वा संबन्धिनः । शतस्य द्वयोः शतयोर्वा विकारांस्तथा सुवर्णमयानि सुवर्णस्य विकारा यानि पानि तेरा पूजा येपुं तान् । सर्वानपि स्वर्णपद्मः पिहितानित्यर्थः ।।
सौवर्ण पट्टके कपि धातकासवाससः ।
अमण्डयन्वहिं मौद्रं त्यक्त्वा तालमयं धनुः ॥ ७१ ॥ ७१. स्पष्टः । किं त्वमण्डयन्विच्छित्त्यारचयन् । उपशान्तचित्तत्वात्तालमयं तालतरोविकारं धनुस्यक्त्वा ।
शतिकान् । इत्यत्र "मानाक्रीतवत्" [ ४४ ] इति क्रीतवद्विकारे प्रत्यय. विधिः ॥ वेत्सर्वविधिसादृश्यार्थः । तेन लैबादिकस्याप्यतिदेशः स्यात् । द्विशतान् ॥
हैमान् । राजतान् । इत्यत्र "हेमादिभ्यो" [ ४५ ] इत्यन् ॥
१ सी वर्णपटके. २ सी सवि । अ. ३ सी यलम्ब'.
१बी यामः इति त्रः । हा'. २ बी लसान. ३ बी भून्. ४ ए 'श्च हैम्नोः ५सी द्वयोवा. ६ बी 'नि स्वर्ण'. ७सी पु । स. ८ बी कारोप्र. ९बी विधेः । व. सी विधि । यत्म. १० ए वत्संबन्धि सा. ११ ए लुदिवालक. १२ बी ञ् । स्वर्ण'. सी ञ् । सौवर्ण.