________________
[ है. ६.२.२१.] पञ्चदशः सर्गः।
२२७ ५४. शंभुर्मूर्ध्नि कैश्यं केशौघं पाणिना स्पृशन्नाहादनार्यच्छुपन्संस्तं नृपं प्रत्युवाच । हे राजंस्त्वं भूभारमुत्तितारयिषुः स्वपुत्रे न्यसनेन स्वत उत्तारयितुमिच्छुरागमः । कैशिकमिव यथा केशौघमुत्तितारयिपुस्त्वमागमः । सोमनाथयात्रायां हि यात्रिकैः केशा उत्तार्यन्ते ।। कैश्यम् । कैशिकम् । अत्र "केशाद्वा" [ 10 ] इति वा ण्यः ।
त्वद्धात्रीयत्रिभुवनपालपुत्रोस्ति धूःक्षमः । कुमारपालः साश्वीयस्त्वदन्ते क्ष्मां धरिष्यति ॥ ५५ ॥ ५५. स्पष्टः । किं तु धूःक्षमो भूमिप्राग्भारधरणक्षमः । साधीयोश्वौधेन सहितः॥
इत्युक्त्वान्तर्हिते शंभौ यावदाचैर्नृपोचलत् ।
वेत्यादिष्टो नमन्पाचे तावदागाद्विभीषणः ॥ ५६ ॥ ५६. स्पष्टः । किं त्वाश्वैरश्वौधैः वेत्र्यादिष्टः प्रतीहारेण कथितो नमन् सन् विभीषणो रावणभ्राता पार्श्वे राज्ञः समीपे लङ्कात आगात् । विभीषणो हि लोकैरविनश्वर उच्यते । सावीर्यः आचैः । अत्र "वाश्चादीयः" [१९] इतीयो वा ॥ पार्थे । अत्र "पर्धा इण्" [२०] इति ड्ण् ।
ऊचे सोहीनपृष्ठयेषु गोत्राप्रीणितकाठक ।
विद्धि द्विट्तूलवातूल भृत्यं मां पूर्वजन्मनः ॥ ५७ ॥ ५७. स विभीषण ऊचे । यथाहीनपृष्ठयेषु । अह्नां समूहा अहीनाः पृष्ठानां समूहाः पृष्ठ्याः । द्वन्द्वे तेषु यागभेदेपु हे गोत्राप्रीणितकाठक गोसमू१ बी नपुष्पेषु. . १एनाइद. २ ए यन्नुप'. ३ सी ताहिते । के. ४ बीन् । केश्य. ५५ रबोधैः. ६ बीयः अधैः.