________________
२२६ द्व्याश्रयमहाकाव्ये
[ जयसिंहः ] आपूपिकैर्नु माणव्यमाधैनवं नु धैनुकैः ।
ब्राह्मण्यमिव निर्वाहृष्टोसि त्वत्प्रसादतः ॥५२॥ ५२. त्वत्प्रसादतः स्वर्णसिद्धिदानरूपात्त्वत्प्रसादादरम्यहं हृष्टः यथापूपिकैः पूपिकौघैर्माणव्यं बटुकौघो हृष्यति यथा वा धेनुकैर्धेन्वोपैराधैनवं न धेनवो येषां तेघेनवस्तेषामोघो हृष्यति यथा वा निर्वापैः पितृतर्पणैाह्मण्यं द्विजौघो हृष्यति ॥
आवाडव्यान्महीमागाणिक्याद्विद्ध्यनृणां कृताम् । न्यस्य यत्र विमां साधयामि खं देहि तं सुतम् ॥ ५३ ॥ ५३. स्पष्टः । किं त्वावाडव्याहिजौघादारभ्यागाणिक्यागणिकौघं च यावदुत्तमं जनमारभ्य हीनं च यावदित्यर्थः । स्वमात्मानम् ॥ कैदार्यम् । कैदारकम् । इत्यत्र "केदारापण्यश्च" [१३] इति प्योकञ्च ॥ कावचिक । हास्तिकम् ॥ अचित्चात् । आपूपिकैः ॥ केदारात् । कैदारिकम् । भत्र "कवचि." [१४] इत्यादिनेकण् ॥
धेनुकैः । अत्र “धेनोरनमः" [१५] इतीकण् ॥ भना इति किम् । भाधैनवम् । उत्साद्यन् । अनुशतिकादित्वादुभयपदवृद्धिः [७. ४. २७ ] ॥
मारण्यम् । माणव्यम् । वाडव्यात् । इत्यत्र "ब्राह्मण" [१६] इत्यादिना यः॥ गाणिक्याद् । इत्यत्र "गणिकाया ण्यः" [१७] इति ण्यः ॥
मृर्ध्नि कैश्यं स्पृशञ् शंभुः पाणिना प्रत्युवाच तम् । भूभारं कैशिकमिवोचितारयिषुरागमः ॥ ५४॥
१ बी नृणीं कृ. २ एम् । नामा य.
१५ पिको.