________________
२२३
[है. ६.२.८.] पञ्चदशः सर्गः। युक्तस्तथासावनन्तरागामिनी निशा पौषी पुष्येण चन्द्रयुक्तेन युक्ता तथाद्यास्मिन्यात्राहे पुष्योपि पुष्येण चन्द्रयुक्तेन युक्तः कालोपि । अयं संवत्सरोहोरात्रश्च सर्वकार्यसिद्धिकर इत्यर्थ इति ॥ पौषोन्दः । अत्र "उदित." [५] इत्यादिना ॥ पौषी निशा । इत्यत्र "चन्द्रयुक्तात्" [६] इत्यादिनाण् । लुस्वप्रयुक्त पुष्योच ॥
निशां राधानुराधीयां ध्यानस्तिमितदृष्टिना ।
जपन्किमपि चौलुक्यो व्यडम्बयन्मुखेन्दुना ॥ ४६ ॥ ४६. चौलुक्यः किमेप्यज्ञेयं रहस्यं जपन्ध्यायन्सन् निशा व्यडम्बयदन्वकरोत् । कीदृशीम् । राधानुराधीयां राधानुराधाभिर्विशाखानुराधा. भिश्चन्द्रयुक्ताभिर्युक्ताम् । केन कृत्वा। ध्यानस्तिमितदृष्टिना समाधिनिश्चलाक्षेण मुखेन्दुना वऋश्रेष्ठेन । इन्दुशब्दोत्र व्याघ्रादिशब्दवत्प्रशंसावचनः । एतेन राज्ञि समाधेः प्रकर्ष उक्तः । चन्द्रोदयोज्वलनिशातुल्यो राजा। राधानुराधायुक्तचन्द्रतुल्यो राज्ञो ध्यानस्तिमितदृष्टिमुखेन्दुः। यदा हि विशाखानुराधयोश्चन्द्रः स्यात्तदा तयोर्मध्यस्थत्वाञ्चन्द्रस्यैवमुपमा । राधानुराधीयां निशाम् । अत्र "द्वन्द्वादीयः" [ 0] इतीयः ॥
कण्ठप्रभानवाम्भोदैः श्रवणां दर्शयन्निव ।
अङ्गज्योत्स्नाभिरश्वत्थां चाविरासीदथेश्वरैः ॥४७॥ ४७. अथेश्वर आविरासीत्प्रत्यक्षोभूत् । कीहक्सन् । कण्ठप्रभानवाम्भोदैः कण्ठकान्तिभिरेव नीलत्वात्प्रावृषेण्यमेधैः कृत्वा श्रवणामिव १बी सी क्यो वि. २ सी श्वस्यां चा'. ३ ए °रः । ईश्व'.
१ बी न्तरगा . २ सी युक्तः का'. ३ बी प्रत्युक्ते. ४ ए युक्तेः पु. ५ सी मपि में. ६ वी सी शां विड'. ७बी विशेषानु. ८बी शापा. १९न्तिरे.