SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २२२ व्याश्रयमहाकाव्ये [जयसिंहः ] गर्भरत्नौघैः कार्दमिकं कर्दमेन कृष्णेन मृद्विशेषकाटद्रव्येण रक्तं महानीलैरिन्द्रनीलैः कार्दमं च कविमार्गे कृष्णनीलवर्णयोरैक्येन वर्ण्यत्वात्कर्दमेन रक्तं मिश्रैः संकीर्णैस्तै विद्रुमादिभिः शाकलिकं च शकलेन नानावर्णेन रागद्रव्यभेदेन रक्तम् ॥ शाकलैः पीतकैनीलैरेनीलैरपरैरपि । तं क्षौमैरार्चयद्भूपः कर्पूरीगुरुधूपितैः ॥ ४४ ॥ ४४. स्पष्टः । किं तु पीतकैः पीतेन कुसुम्भप्रथमनिर्यासेन रक्तैः । नीलैनीलेन रागविशेषेण रक्तैः । अनीलैर्नीलीरक्तक्षौमवर्जितैरपरैरपि क्षौमैः । नील्या रक्तानि हि क्षौमाणि लोके पवित्राणि ॥ कौसुम्भम् । अत्र "रागाट्टो रक्ते” [ १ ] इत्यण् ॥ स्वाक्षिकम् । रौचनिकम् । अत्र “ लाक्षा०" [ २ ] इत्यादिना इकण् ॥ शाकलिकम् शाकलैः । कार्दमिकम् कार्दमम् । अत्र “शकल." । इत्यादिना वेकण् ॥ नीलैः । पीतकैः । अत्र " नील० " [ ४ ] इत्यादिना - भकश्च (अकौ ?) ॥ लिङ्गविशिष्टग्रहणादनीलैः ॥ पौषोन्दोसौ निशा पौषी पुष्योद्यापीति शंसिनः । द्विजान्विसृज्य सोन्यांश्च समाधाव विशद्रहः ॥ ४५ ॥ ४५. स जयसिंहो रह एकान्ते समाधौ ध्यानार्थमविशत् । किं कृत्वा । द्विजानन्यांश्च भट्टादियाचकान्विसृज्य दानसन्मानादिना मुँत्क• लयित्वा । किंभूतान् । इति शंसिनो वदतस्तदेवाह । असौ यत्र राजा सोमनाथस्य यात्रां चकार सोब्दः संवत्सरः पौषः पुष्येणोदितगुरुणा I १ ए सीरप . [ 2 ] २ सी 'रागरु'. १ सी रक्तमि . २ए थन सी प्रवनि'. 'नीलर'. ५ बी कौशुम्भ.. ६ सी मुत्काल .. ३ ए ले रा. ४ ए सी ७ बी सी पौष पु.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy