SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये आर्याग्रणीर्वासिष्टश्च वासिष्ठेन सहोत्सुकः । अवासुदेवं तं वासुदेवं वाहातुमाययौ ॥ ३९ ॥ ३९. आर्याप्रणीरार्येष्वारिये (ष्वायें ?) त्याख्यया तत्र प्रसिद्धेष्वप्रणीः श्रेष्ठो वासिष्ठो र्वसिष्ठस्यापत्यं वृद्धमृषिर्वासिष्ठेन वासिष्ठस्यापत्येन यूना सह सपुत्र इत्यर्थस्तं नृपमाह्वातुं स्वमहासौघेवस्थानायामन्त्रयितुमाययौ । कीदृक्सन । उत्सुकोन्येभ्यः पूर्वमाह्वातुमतित्व रावान् । किंभूतं तम् । वासुदेवं 'नु रूपवत्त्वपराक्रमित्वादिगुणैर्वसुदेवस्य वृद्धमपत्यमिव काममिवेत्यर्थः । किंभूतं वासुदेवम् । अवासुदेवं वासुदेवस्य कामस्यापत्यं युवा वासुदेवोनिरुद्धस्तेन रहितम् । एतेन राज्ञो निष्पुत्रत्वोक्तिः ॥ I २२० औदुम्बरि: औदुम्बरायणः । भन्न "द्रीञो वा” [ १३९ ] इति यून्यायनणो लुब्वा ॥ ञितः । तैकायनिः । सहतैकायनिः । अत्रौत्सर्गिकाणः ॥ भषत् । वासिष्ठः । वासिष्टेन । इत्यत्रात इञश्च "जिद्ο" [ १४० ] इत्यादिना युवप्रत्ययस्य लुप् ॥ वासुदेवम् । अवासुदेवम् । इत्यत्र “अब्राह्मणात् " [ १४१ ] इति युवप्रत्ययस्यात इञो लुप् ॥ पैलः सपैलः शालङ्किः सशालङ्किस्त्वरान्वितैः । पान्नागारिः सँपान्नागारिर भूपतेर्ददौ ॥ ४० ॥ ४०. सपैलः पुत्रयुक्तः पैल आर्य एवमपि । अर्घ भूपतेर्ददौ । चन्दनपुष्पाक्षतजलाद्यर्घमर्घमुपलक्षणत्वात्पाद्याचमनीयमधुपर्काद्यपि राज्ञोदान् । गुरुनृपादयः षडर्ष्या इति हि स्मृतिः ॥ शिष्टं स्पष्टम् ॥ १ बी सी णीश्च वासिष्टो वा . सीतः । पन्ना . ४ बी सपन्ना . [ जयसिंहः ] १ सीं वशिष्ठ.. ५ सी आश्चर्य. २ ए ंङ्किस्वरा'. ३ बी 'ङ्कि रा. ३ बी सी सपन्नगा ३ एवं स्वरू'. २ बी सी वाशिष्ठ'. ४ बी अत्रोत्स..
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy