________________
[है. ६.१.१३९.]
पञ्चदशः सर्गः।
२१९
लुप्प्रतिविध्यते तल्लोपिप्रत्ययान्तादेव विघीयमाने स्वरादौ प्रतिविध्यते । अत्र द्वन्द्वाद्विधीयते नै लोपप्रत्ययान्तादिति न प्रतिषेधः । “गर्गभार्गविका" इत्युत्तरसूत्रं वा नियमार्थ व्याख्यास्यते । गर्गभार्गविकाया अन्यत्र द्वन्द्वे वृद्धे यूनि वा प्रतिषेधो न स्यात् ॥
गर्गभार्गविका । इत्यत्र "गर्गमार्गविका" [१३६ ] इत्यणो लुप्रतिषेधो निपात्यते ॥
फाण्टाहृतैः । इत्यत्र यूनि विहितस्य गस्य लुप् [ १३७ ] ॥ गार्गीयैः गार्यायणीयैः । हौत्रीयैः हौत्रायणीयकैः । अत्र "वायनण्" [१३८ ] इत्यादिना यूनि विहितस्यायनण आयनिजश्च लुब्वा ॥
औदुम्बरिः पुराध्यक्षस्ततः सौदुम्बरायणः ।
सहतैकायनिस्तैकायनिश्चाभिमुखोभ्यगात् ॥ ३८॥ ३८. ततः पुराध्यक्षो नगरस्य रक्षार्थमधिकृत औदुम्बरिरुदुम्बरस्यापत्यं “साल्वांश०" [ ६. १. ११७ ] इत्यादिनेजि औदुम्बरिस्तस्यापत्यं युव ऋषिर्गण्डेति नाम्ना तत्र प्रसिद्धो नृपस्याभिमुखोभ्यगात् । कीहक्सन् । सौदुम्बरायण औदुम्बरेरपत्येन यूना । स्वभ्रात्रेत्यर्थः । युक्तस्तथा तैकायनिश्च तिकस्यापत्यं वृद्धमार्येति नाम्ना तत्र प्रसिद्ध ऋषिश्चोपलक्षणत्वादन्योप्यायौंघोभिमुखोभ्यगात् । कीहक्सन् । सहतैकायनिस्तैकायनेरपत्येन यूना युतः सपुत्र इत्यर्थः । उपलक्षणत्वात्स्वजनादिपरिवारोपेतः ॥
१ बी सी लोपप्र. २ ए न तोपिप्र. ३ ए न्ढे यू. ४ बी सी यैः होत्री. ५ बी यैः होता. सी यैः हात्रा. ६ ए म्बर. ७ ए पस्तस्या. ८ ए खोभ्यागा'.