________________
१२
व्याश्रयमहाकाव्ये
[कर्णराजः]
२१. असौ पुत्रः शस्यं श्लाघ्यं सुरकार्य दैत्यवधादि करिष्यति । कीहक्सन् । अयं धर्म्यत्वेन पूज्यमसंकल्प्यं महत्तमत्वेन केनाप्यसाध्यत्वादचिन्त्यं वृत्यं वर्तनं यस्य सः । तथा चा हिंस्या अरयो येन सः। तथा शंस्यकृत्यवित् प्रशस्यकार्यज्ञस्तथा दानेन वयं सेक्यं जगद्येन सः॥
नीत्या वृष्या च मृन्या च दुह्या चानेन गौरियम् ।
ब्रह्मजाप्यकृतां जप्ये मार्ये विघ्नं हरिष्यते ॥ २२ ॥ २२. अनेन पुत्रेण क; नीत्या न्यायेन कृत्वेयं गौः पृथ्वी वृष्या च सेक्या न्यायेन प्रवर्तयिष्यत इत्यर्थः । अत एवं मृज्या च नि. पापीकरिष्यत इत्यर्थः । अत एव दुह्या च रत्नानि क्षारयितव्या च । न्यायपूतौ हि पृथ्वी महर्युपचितत्वाद्रत्नानि प्रसूते । तथा ब्रह्मजाप्यकृतां ब्रह्मणः परमध्येयस्य जाप्यं जपनं ध्यानं कुर्वतां योगिनां मार्ये रागद्वेषादिमलापनयनेन संशोध्ये जप्ये ध्याने विनं दैत्याद्युपद्रवोनेन हरिष्यते ॥
ज्ञानगुह्यमिति ख्यातवत्सु तेष्वनिगोह्यमुत् ।
दोह्या गाः प्रददौ जित्याशतभूमिं च भूमिपः ॥ २३ ॥ २३. इत्येवंरीत्या ज्ञानगुह्यं ज्ञानरहस्यं ख्यातवत्सूक्तवत्सु तेषु दैवज्ञेषु भूमिपः कर्णो ददौ । किमित्याह । दोहा गा धेनूर्जित्याशतभूमि च । जित्या महाहलानि तासां यच्छतं तस्य भूमिं च । महाहल१ ए सी जाप्यं कृ. २ डी विघ्नह°. ३ डी वस्तु ते°.
१ सी धर्मात्वे. २ ए सी कल्पं म° ३ ए केनप्य. ४ सी चिन्त्यवृत्य व. ५ ए °ा हिस्या. ६ ए °त् प्रश०. ७ वी सेच्यं ब. ८ ए सी क्यं तग°. ९ए ध्वीन्वृषा च. १०एसी व सुज्या. ११ ए सीता दि पृ. १२ सी डी ध्ये जाप्ये. १३ सीक्त ते. १४ डी त्सु दै. १५९ °लामि ता. सी लामि तांस. १६ डी नि तसा य..