SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ [ है. ६.१.१३४. पश्चदशः सर्गः। वृकाः शम्राजीविसंघो "वृकाट्टेण्यण" [७. ३. ६४] इति टेण्यणि वाकेण्यः । लोहध्वजाः पुंगाः । “पूगाद्" [७. ३. ६० ] इत्यादिना म्ये लो(लौ)हध्वज्यः । कुण्डीदृशा वाहीकेषु शस्त्रजीविसंघो “वाहीकेषु०" [७. ३. ६३] इत्यादिना व्यटि कौण्डीदृश्यो द्वन्द्वे वृकलोहध्वज कुण्डीदृशाः । इत्यत्र टेण्यणादेः वङ्गाङ्गसुह्मकाः । अत्र च द्विस्वरलक्षणाणश्च "द्रयादेस्तथा" [ १३२ ] इति लुप् ॥ सोमेशः संमुखं न्वेति राजा वा शीघ्र इत्यभूत् । वादोङ्गवङ्गदाक्षीणां सहाङ्गवाङ्गदाक्षिभिः ॥ ३४ ॥ ३४. अचिराद्देवपत्तनसमीपे राज्ञ आगमनादित्येवंविधो वाद उक्तिरभूत् । शिष्टं स्पष्टम् ॥ अङ्गवङ्गदाक्षीणाम् आङ्गवाङ्गदाक्षिमिः । अत्र 'वान्येन"[ १३३ ] इति द्विखरलक्षणस्थाणो लुप (ब्बा)॥ राजा गर्गकुलाद्वैदकुलं विदकुलादथ । ज्ञाता. गार्यकुलं चेति दानं गच्छन्विवेक्यदात् ॥ ३५ ॥ ३५. इति पूर्वोक्तप्रकारेण यात्रार्थ गच्छन्सनाजा दानमदाद्गर्गकुलविदकु योरेव । किं कृत्वा । गर्गकुलाद्नार्यस्य गार्ययोर्वा कुलाद्वैदकुलं वैदस्य वैदयोर्वा कुलं ज्ञात्वाथ तथा विदकुलाद्गार्यकुलं च ज्ञात्वा । यतो विवेकी ॥ गर्गकुलात् गार्यकुलम् । विदकुलात् वैदकुलम् । अत्र "दे(ये)केषु." [१३४] इत्यादिना लुप्वा(वा) ॥ १ए गाग्र्ये चे. १ए पूगः । पू. २ बी सी ण्डीवृशा. ३ बी °ण्डीवृश्यो. सी डी. वृशोद. ४ बी °ण्डीवृशाः. ५ सी दृश्याः। . ६ सी च्छना'. ७ बी 'न्स राजा. ८सीजा वासम. ९एदार्गस.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy