SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ [है• ६.१.१००.] पञ्चदशः सर्गः। २०७ अकुलीनान् । बहुकुलीनान् । भद्रकुलीनान् । इत्यत्र “कुलादीनः" [९६] इतीनः ॥ अकुल्यः । कौलेयकानाम् । बहुकुल्यः । बाहुकुलेयकैः । अत्र “यैय." [९७] इत्यादिना वा यैयकनौ ॥ पक्षे। अकुलीनान् । बहुकुलीनान् ॥ असमास इति किम् । भद्रकुलीनान् ॥ दौष्कुलेयैः दुष्कुलीन । इत्यत्र “दुष्कुलादेयण्वा" [९८] इति-एयण्वा ॥ सोथ माहाकुलो माहाकुलीनपरिवारितः । पुरीं महाकुलीनस्वीकृतार्थः प्राविशत्स्वकाम् ॥ ७॥ ७. स्पष्टः ।। माहाकुलः । माहाकुलीन । महाकुलीन । इत्यत्र "महा." [९९] इत्या. दिनाजीनजौ वा ॥ सोशाद् हार्दिक्यसाम्राज्यान्कौरव्यमत्रिभिर्युतान् । भैमसेनिपितृव्यो नु भैमसेन्यपितेव वा ॥ ८ ॥ ८. स जयसिंहो हार्दिक्यसाम्राज्यान्हृदिकस्य सम्राजश्च राज्ञोरपत्यानि क्षत्रियानन्वशाद्विजित्याशिक्षयत् । किंभूतान् । कौरव्यैः कुरोब्राह्मणस्यापत्यैर्मत्रिभिर्युतान् । यथा भैमसेनिपितृव्यो भीमापत्यस्य घटोत्कचस्य पितृव्यो युधिष्ठिरो भैमसेन्यपितेव वा यथा वा भीमः । पाण्डवैर्हि कौरवयुद्धे हार्दिक्यसाम्राज्या जिताः ॥ वार्द्धक्यरिसमं भूपास्तं लाक्ष्मण्यबला न के । पितृव्यं लाक्ष्मणेर्नीलवार्द्धक्याद्या इवाभजन् ।॥९॥ १ बी °थ महाकुलो महाकुली'. २ बी नु भौम'. ३ बी व्यं लक्ष्मणे नील'. ४ बी ईकाद्या. १ बी सी वा येय. २ सी ष्टः । महा. ३ ए लीनः । म. सी लीन ई. ४ए सेनपि'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy