________________
२०६ व्याश्रयमहाकाव्ये
[ जयसिंहः] माणवैः । इति "माणवः कुत्सायाम्" [९५] इत्यनेन निपात्यते ॥
त्यक्त्वा बहुकुलीनांश्वाकुलीनांश्च तदा द्विपान् ।
राज्ञां भद्रकुलीनान्स जग्राहोपायनीकृतान् ॥ ४॥ ४. तदा पथि गमनकाले स नृप उपायनीकृतान्ढौकनीकृतान्भद्रकुलीनान्भद्रजातीयेभेन्द्रकुलस्यापत्यानि राज्ञां द्विपाजग्राह । किं कृत्वा । त्यक्त्वा । कान् । बहुकुलीनांश्च मन्दजातित्वेनेषदसंपूर्णकुलापत्यानि तथाकुलीनांश्च मृगजातिमिश्रजातित्वान्न कुलस्यापत्यानि ॥
कौलेयकानामाचानां तेनेभानां पुरो बभौ ।
बहुकुल्यो न्वकुल्यो नु शङ्के शऋद्विपोपि सः ॥५॥ ५. शङ्के सर्वगजोत्कृष्टतया प्रसिद्धः शक्रद्विपोप्यैरावणोपि तेन राज्ञात्तानां राजभ्यो गृहीतानां कौलेयकानां भद्रजातीयानामिभानां पुरो बभौ । कीदृग् । बहुकुल्यो न्वीषदसमाप्तकुलापत्यमिवाकुल्यो न्वकुलीन इव वा । केषांचित्तेषामपेक्षया ही गुणत्वात्केषांचिच्च हीनतमगुणत्वात् ॥
प्रेक्ष्य जिष्णुं तमायान्तं ग्राम्यै हुकुलेयकैः।
दौष्कुलेयैदुष्कुलीननिम्नैश्चात्मा कृतार्थितः ॥६॥ ६. स्पष्टः । किंतु कैश्चिद्धाहुकुलेयकैः किंचिद्धीनकुलापत्यैः । कैश्चिञ्च दौष्कुलेयैर्दुष्कुलस्यापत्यैः। कैश्चिहुष्कुलीननिम्नश्च दुष्कुलापत्येभ्योऽपि नीचैरतिनीचकुलैश्चेत्यर्थः । आत्मा कृतार्थितोदृष्टपूर्वताहग्नृपदर्शनात्स्वजन्म सफलितमित्यर्थः ॥
१ ए 'न्स प्रा. २९ कानां मत्ता. बीकानामत्ता'. ३ बी 'ष्णु त्वमा ४ सी कुलः स्या'.
१५ पानीय'. २ बी येनकु. ३ बी यामि . ४ सी नकुलत्वा. ५५ वाद.