________________
[है• ६.१.८०.] चतुर्दशः सर्गः।
२०२ काणेराम्बावक्रौर्यभा चुलुक्यो गुप्ताव:प्सीत्तं यशोवर्मभूपम् । तां काणेयाम्बाकाणदृष्टिं न्वकान्ति धारां नाटेयत्कीर्तिराश्वासयच
॥७३॥ ७३. चुलुक्यस्तं यशोवर्मभूपं गुप्ताव:प्सीत् । यतः क्रौर्यभाज जयसिंहं प्रति द्रोहाभिप्रायेण क्षुद्रचित्ततां भजन्तम् । काणेराम्बावद्यथा काणेरस्य काणाया अपत्यस्याम्बा माता काणा क्रौर्यभान क्रौर्य क्षुद्रतामेकाक्षतया हीनाङ्गत्वं भजते तथा । चुलुक्यस्तां धारामाश्वासयञ्चावन्तिदेशमासयच्चेत्यर्थः । कीदृक्सन । नाटेयन्ती नट्यपत्यमिवाचरन्ती सकलेपि विश्वे नृत्यन्तीत्यर्थः । कीर्तिर्यस्य सः। किंभूतां धाराम् । अकान्ति निःश्रीकां काणेयाम्बाकाणदृष्टिं नु काणेयाम्बायाः काणाया यासौ काणा दृष्टिस्तामिव ।। भौवेय । इत्यत्र "भ्रुवो भ्रन्च' [७६] इति-एयण ध्रुवादेशश्च ॥ काल्याणि नेयः । सौभागिनेयः । अत्र "कल्याण्यादे०" [७७ ] इत्यादिनाएयण् इन्-चान्तादेशः ॥
कौलटिनेय अकौलटेयैः । अत्र “कुलटाया वा" [७०] इत्येयण् इन्-चान्तादेशः ॥
चाटकैरम् । चटका । इत्यत्र "चटकाद्" [७९] इत्यादिना गैरः स्त्रियां तु गैरस्य लुप् ॥
काणेर । काणेय । नाटेर । नाटेयत् । इत्यत्र "क्षुद्राभ्य एरण्वा" [ ८०.] इति वा-एरण् । वैश्वदेवी छन्दः ॥ १ए वक्षेप्सी'. २ बी सी दृष्टि न्व. ३ ए °यनु । चु.
१ए बी वक्षेप्सी. २ बी सी वाशय'. ३ ए नेयः । अ. ४ ए ल्याणादे'. ५ एशः । कोल'. ६ सी नेयः अ. ७ बी सी म् । चाट'. ८ सी बी 'न्दः । गोधा.