________________
२०२ व्याश्रयमहाकाव्ये
[जयसिंहः] गौधारदृढमुष्टिकार्मुकभृतो गौधेरदुष्टाशयां
प(पा)क्षारानपि तत्र सीमनृपतीजाण्टारपाण्टारवत् । सोबभादुत सौरभेयवदुताहो वाडवेयोङ्य(याव?)व
दृप्तान रैवतिकाश्वपालिकसखान् गार्टेयहार्टेयधीः ॥७४॥
७४. स जयसिंहस्तत्र धारासमीपे सीमनृपतीनबध्नात् । यतो गोधाया अपत्यं दुष्टं गौधेरो योहिना गोधायां जन्यते । एवं गौधारोपि । तस्येव जिघांसया दुष्ट आशयो येषां ताजिघांसूनित्यर्थः । किंवदबध्नात् । जाण्टारपाण्टारवजण्टर्पेण्टयोः पक्षिविशेषयोरपत्ये पक्षिभेदाविवाथा(वोता?)थ वा सौरभेयवद्वृषभानिवोताहो अथ वा वाडवेयोदय(याश्व?)वद्वडवानां बीजसेचकान(न्?) वर्धितानश्वानिव । कांश्चित्पक्षिवत्काष्ठपञ्जरेषु कांश्विञ्च वृषभानिव लोहशृङ्खलाभिर्गलेषु कांश्विचाश्वानिव लोह निगडैः पादेषु बबन्धेत्यर्थः। किंभूतान् । गौधारन्ति सुदृढत्वेन गौधारा इवाचरन्ति दृढमुष्टीनि बलिष्ठमुष्टिकानि कार्मुकाणि बिभ्रति ये तानपि युद्धायात्तास्त्रानपीत्यर्थः । एतेनैते न च्छलाद्वद्धा इत्युक्तम् । तथा पाक्षारानपि पक्षस्य वर्गस्य महासन्तानस्यापत्यान्यपि वपक्षसहितानपीत्यर्थः। तथा दृप्तानपि स्वबलाद्यवलेपेन दर्पिष्ठानपि नाकिंचित्करानित्यर्थः। तथा रैवतिकाश्वपालिकसखानपि रैवतिकाव. पालिकौ रेवत्या अश्वपाल्याश्चापये कौचिन्नपौ तयोः सहायानपि
"
ड
१ सी यानक्षा. २ ए आचार'.
१बी यन्मे गो'. २ ए 'त्यं गोधरो. बी "त्यं गौ'. ३ बी तान्निघांशून्नित्य'. ४ बी सी पन्तयोः ५ बी त्ये पकृतिशेषयोरपत्ये प. ६ ए सेनका. ७ सी कानां व. ८ बी हग . ९ सी मुखीनिव . १० सी पक्ष्यस्य. ११ ए °स्य म. १२ सी त्यानपि. १३ बी योः साहा.