________________
[ है० ६.१.७६.] चतुर्दशः सर्गः।
१९९ आत्रेयदाक्षायणशाकलेयशौभ्रेयशस्यां हरसिद्धिमुख्याः। कीर्ति प्रगास्यन्ति तवेत्युदित्वा तिरोदधे सा सह योगिनीभिः
॥ ६९ ॥ ६९. स्पष्टः । किं त्वात्रेयादिमुनिभिः प्रशस्याम् । हरसिद्धिनाम्नी सर्वयोगिनीपीठस्वामिनी तदाद्या योगिन्यः । सा काली ।।
आत्रेय । इत्यत्र "इतोनिनः" [२] इत्येयण ॥ अनिन इति किम् । दाक्षायण ॥
शौभ्रेय । शाकलेय । इत्यत्र “शुभ्रादिभ्यः' [ ७३ ] इत्येयम् ॥ कौषीतकेयादथ लाक्षणेयाच्छयामेयतो निश्यपि तन्निशम्य । धारां यशोवर्मनृपः सवैकर्णेयः सुदुर्ग तदगात्तदैव ॥ ७० ॥
७०. यशोवर्मनृपस्तदैव निश्येव तत्प्रसिद्धं सुदुर्ग शोभनं दुर्ग स्थानमगात् । किं तदित्याह । धारा धाराख्यां पुरीम् । कीदृक् । सवैकर्णेयः वैकर्णेयैर्विकर्णरपत्यैः प्रधानैः सहितः । किं कृत्वा । कौषीतकेयादिमुनिभ्यो निश्यपि तद्योगिनीजयरूपं वृत्तान्तं निशम्य ।। श्यामेयतः । लाक्षणेयात् । इत्यत्र “श्याम०" [ ७४ ] इत्यादिनैयणं ॥
वैकर्णेयः । कौषीतकेयात् । इत्यत्र “विकर्ण०" [ ७५ ] इत्यादिनैयण ॥ भ्रौवेयमुख्यैरपि गीतकीर्तिः काल्याणिनेयः शिबिरं स्वमेत्य । सौभागिनेयैः सभटैरकौलटेयैरुषस्युजयिनीमभासीत् ॥ ७१ ॥
७१. स जयसिंहः स्वं शिविरं सैन्यमेत्योषसि प्रभाते भेटैरु१ बी सी यः सदु. २ ए °रकोल°. ३ सी जयनी'. १ बी श्रेयः । शा. २ सी भनदुर्गस्था. ३ बी दुर्गस्था. ४ सी धाराख्यं पु. ५ ए सी °म्य । शामे'. ६ बी व शाम°.. ७ बी ण् । विक.
कौपीतायाः वैकर्णेयैर्विकर्णपधारा धाराख्या