________________
१९४. ब्याश्रयमहाकाव्ये
[जयसिंहः] ६०. स्पष्टः । किं तु शौनकायन्याद्या ऋषिपुत्र्यः । अस्मि वर्ते । पार्वतिपत्नी पार्वतेच्नेर्भार्या । शंस हे राजन् कथय । सा काली ॥ जैवन्तिवद्रौणिवदद्य तिष्ठ तिष्ठेति वत्र्याविरनेकरूपा । चौलुक्य राजस्तरसातिशैवद्रोणायनं सापिदधेस्त्रवर्षेः ॥ ६१ ॥
६१. स्पष्टः । किं तु हे राजजैवन्तिवज्जीवन्तापत्यराजवद्रौणिवदश्वत्थामनृपवदद्य तिष्ठं तिष्ठ मा नेश इत्यर्थः । इति सा काली । अतिशैवद्रोणायनं शौर्यादिगुणै(गः) कार्तिकेयाश्वत्थामावतिक्रान्तम् ॥ काकुस्थ(स्थ)वच्छऋजिता क्षणं राड्वासिष्ठवद्गाधिसुतेन चोचैः । भैमेन कानीन इवावधूतः श्वाफल्कदाशार्हसमस्तथा(या?)ौः
॥६२॥ ६२. श्वफल्कस्यापत्यं श्वाफल्कोन्धकक्षत्रियभेदो दशार्हाणामपत्यं दाशार्हो विष्णुईन्द्वे ताभ्यां समो राड् जयसिंहस्तया काल्यास्त्रैः क्षणमवधूतः क्षिप्तः । यथा काकुस्थः (त्स्थः) ककुस्थ(स्थ)स्यापत्यं काकुस्थो(स्थो) रामो लक्ष्मणो वा शक्रजिता रावणपुत्रेण यथा च वासिष्ठः कामधेनुप्रत्याहरणव्यतिकरे वसिष्ठर्षिणोत्पादितत्वावसिष्ठस्थापत्यं परमारादि(पराशरादि ?)पुरुषो गाधिसुतेन विश्वामित्रेण यथा च कानीनः कन्याया अपत्यं कर्णो भैमेन भीमस्य पाण्डोरपत्येन घटोत्कचेनोच्चैः क्षणमखैरवधूतः । एतैरुपमानैर्जयसिंहकर्तृकः काल्या भावी पराभवोसूचि । काकुत्स्थादिभिः पश्चाच्छकजिदादीनां विजयात् ॥
१ए सी तेमुनेभाया. २ ए सी श्वस्थाम. ३ सी °ष्ठ मा. ४ ए °शाहणा. ५५ था क. ६ बी पत्यं रा.सी पत्य रा. ७ ए सी था वा वशिष्ठः. ८ एसी वशिष्ठ. ९एबी दशिष्ठ. १० बी कुस्थादि°.