SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८८ व्याश्रयमहाकाव्ये [ जयसिंहः ] पत्यं षाडि ः पुरुषविशेषः । यद्वा षण्णां कृत्तिकानामपत्यं पाडि : कार्तिकेयः । पाडिरिवाने कशक्तियुक्तत्वात्पाडिः कश्चिन्नृपः । तथा व्यासस्यापत्यं वैयास किऋषिः पाण्डववंश्यः कश्चिद्राजा वा । तथा वैरुटस्य गञ्छकस्यापत्यं वारुटकिः । एते सर्वेपि महामन्त्रशक्त्याद्युपेता अपि युष्माभिइछलिताः । एष तु राजा नैतत्सदृशः किं तु प्रतापी जयसिंहस्तत्तस्मादिह जयसिंहविषय उग्रमन्त्रैः प्रचण्डैरभिचारमन्त्रैः कृत्वा हन्तुं यतध्वमित्यर्थः ॥ चाण्डालकिं चण्डि यथाथ कार्मारकिं सवैयाघ्रकिमाशिथ प्राक् । विभज्य पौनर्भवमाग्निशर्म क्युदार नानान्द्रमथो यथा वा ॥ ४९ ॥ भीमस्य पौत्रं जयकेशिनश्च दौहित्रमेनं न तथात्सि किं तु । हतप्रभावा पवमानपार स्त्रैणेयसुनोवि मन्त्रजातैः ॥ ५० ॥ ४९, ५०. हे चण्डि चण्डिकाख्ययोगिनि यथा प्राकू चाण्डालकिं चण्डालापत्यं महामात्रिकमाशिथाखादोथाथ वा यथा सवैयाकिं व्याघ्राख्यनरभेदापत्ययुक्तं कार्मारकिं महामात्रिकं लोहकारापत्यमाशिथाथो वाथ वा यथा पौनर्भवं पुनः पुनरूढाया अनन्तरमपत्यमाग्निशर्मक्युदारनानान्द्रमाभिशर्मक्या अग्निशर्माह्वब्राह्मणपुत्र्याः संबन्धिनमुदारं मन्त्रबलेनोद्भटं ननान्दुरपत्यं विभज्यान्ययोगिनीभिः सह विभागेन कृत्वाशिथ । तथा भीमस्य पौत्रं जयकेशिनश्च मयलापितुदौहित्रमेनं जयसिंहं किं तु किमिति नात्सि न खादसि । कीदृक्सती । हतप्रभावेव । कैर्मन्त्रजातैर्मन्त्रौघैः । कस्य पवमानपारस्त्रैणेयसूनोः परस्य स्त्री परस्त्री तस्या अपत्यं पारखैणेयः । पवमानस्य ४ बी न्तुं प्रय". १ एत्यं पु. ५ सी 'किं चाण्डा'. २ए तक. ६ ए घास्य न. ३ ए वरूढछक°. ७ ए मंत्रोघैः .
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy