SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १८४ व्याश्रयमहाकाव्ये [जयसिंहः] पृथिव्या इमामपत्यमपि वा । एवं यथासंभवमन्यत्राप्यर्था अभ्यूह्याः । अपार्थिवीं न्वत्युत्कृष्टत्वात्स्वर्गभवामिव । कीहक्सन् । औत्सौदपानावपि सदा सहचरावुत्सोदपानाख्यदेशयोर्भवौ जातौ वा । यद्वोत्सोदपानदेशराजयोरपत्ये अङ्गरक्षावपि वर्जिता त्यजनशील एकाकीत्यर्थः। यत आमेयरुग् निर्भीकतादिगुणैः कार्तिकेयसमः ॥ दैत्यः(त्य) । आदित्यः । आदित्यम् । याम्य ॥ पत्युत्तरपद । बार्हस्पत्यः ॥ अणपवादे च । आदिस्य्य । याम्यः । वानस्पत्यात् । इत्यत्र "अनिदमि०" [१५] इत्यादिना न्यः ॥ अनिदमीति किम् । आदितीये । बाहीक । भवाह्य । इत्यत्र "बहिषष्टीकण्च" [१६] इति टीकण न्यश्च ॥ कालेयम् । आग्नेय । इत्यत्र "कलि." [१७] इत्यादिनैयण ॥ पार्थिवाम् । अपार्थिवीम् । अत्र "पृथिव्या जा" [१८] इति प्रात्रौ ॥ औत्सौदपानौ । इत्यत्र "उत्सादेरज्" [१९] इत्यञ् ॥ दैवीं स सौवष्कयिवाष्कयाश्वत्थामोड(ड)लोमैरुपयुक्ततीर्थाम् । सिप्रां ययौ दैवमसिं दधानः श्रियं च दैव्यां महिमापि दैव्यम् ॥४२॥ ४२. स राजा सिमां ययौ । कीहक्सन् । दैवं देवैरधिष्ठितत्वाद्देवानामिममसिं दैव्यां देवसंबन्धिनीं श्रियं चाङ्गलक्ष्मी च दैव्यं महिमापि प्रभावमपि दधानः । किंभूतां सिताम् । दैवी देवैरधिष्ठितत्वेन देवसंबन्धिनीम् । तथा सौवष्कयिवाष्कयाश्वत्थामोडुलोमैः सुवष्कयवष्कयाश्वत्थामोडुलोम्नामृषीणामपत्यैरुपयुक्ततीर्थी संयुक्तावताराम् ॥ १ ए सी त्वात्सर्ग'. २ ए औत्सोद'. सी औसौद'. ३ ए दोत्सौद'. ४ सी स्पतः । अ०. ५ सी "दे यः । आ. ६ ए °दित्य । या .बी दित्य्यः । या . ७ ए 'त्यादिना. ८ एम् । अदि. ९सी हीकः । *. १० ए 'वं दैव. ११ एम् । देवीं. १२ ए सी 'कयवा.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy