SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ [ है०६.१.१५. ] चतुर्दशः सर्गः। १८३ तास्य मातृत्वेन ज्ये आदित्यः सूर्यस्तस्यापत्यं पुनर्व्य आपत्यत्वाभावायलोपा. भावे आदित्यो(त्य्यो ?) मनुस्तेन धार्मिकत्वादिगुणैः समः ।। अथादितीयेस्तमयेत्र वानस्पत्यादिवोत्पत्य तमोग्रसिष्ट । अबाह्यबाहीकपदार्थसार्थ याम्यो नु कालेयमथो नु किं तत् ॥४०॥ ४०. अथ तथादितीयेर्कसक्तेस्तैमयेस्तगमने सति तमोबाह्यबाहीकपदार्थसार्थमबाह्यानां बाह्यानां च सर्वेषामित्यर्थः । पदार्थानां समूहमासिष्टादृश्यकारित्वाद्स्तवानि(वदि?)व । किं कृत्वा । अत्र वानस्पत्यादिवोत्पत्यात्र जगति यो वनस्पतीनां समूहस्तस्माद्वनगहनेभ्य इत्यर्थः । उत्प्लुत्येव । दिने हि तद्वननिकुञ्जष्वासीदित्येवमाशङ्का । उत्प्रेक्षते । नैतत्तमः किं तर्हि याम्यो नु यमस्यापत्यमिवाथो अथवा किं कालेयं नु कलिकालस्यापत्यमिव कलेरागतमिव वा । किल यमो मृत्युभावेन कलिश्च कलिभावेन सर्व वस्तुजातं ग्रसेते तमोपि सर्व अस्तवंदतो ज्ञायते यमकल्योरपत्यमिव पितुरनुहर्तृत्वात्पुत्रस्येत्यर्थः । यद्वातिकृष्णत्वादेवमाशङ्का । कालेयमित्यत्र मतभेदेन क्लीबत्वम् ॥ आग्नेयरुग्राडथ पार्थिवामप्यपार्थिवीं न्वीक्षितुमुज्जयिन्याः । बहिर्निवेशश्रियमङ्गरक्षावौत्सौदपानावपि वर्जितागात् ॥ ४१ ॥ ४१. अथ राड् जयसिंह उज्जयिन्या बहिर्निवेशश्रियं बाह्यप्रदेशलक्ष्मीमीक्षितुमगात् । यतः पार्थिवामपि पृथिव्यां भवां जातां १ बी वेशेश्रि. २ सी श्रियं बाह्य. १ सी ज्यं अप. २ बी आपात्य'. ३ सी दितिगुणैस. ४ ए °स्तग°. ५ बी दार्थे सा. ६ बी ने ह त°. ७ सी शक्य उ. ८ बी सी वत्ततो. ९ बी देशे ल'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy