________________
१८१
[है० ६.१.१२.] चतुर्दशः सर्गः। . तत्तद्धितं कर्तृभिरात्मभर्तुः समेत्य वृद्धैर्युवभिः क्षणाद्वा । दुःस्थैरथावन्तिभटैः स वप्रोध्यारोह्यभीतै रणतूर्यवाद्यात् ॥ ३७॥ ___३७. अथावन्तिभटैर्मालवभटैर्युवभिर्वृद्धैर्वा क्षणात्समेत्य मिलित्वा स वप्रोध्यारोहि रक्षार्थमध्यारूढः । किंभूतैः सद्भिः । आत्मभर्तुस्तत्प्रसिद्धं विजयादिकं हितमनुकूलं कर्तृभिर्भक्तत्वात्साधु कुर्वद्भिस्तथा दुःस्थैर्वप्रखननादिनारिभिराक्रान्तत्वादुर्दशैस्तथा रणतूर्यवाद्याद्रणतूर्याणां वाधं शत्रुभिर्वादनं तस्मादभीतैश्च शूरत्वादक्षुब्धैश्च ॥
तद्धितमित्यनेन "तद्धितोणादिः" [ 1 ] इति तद्धितसंज्ञा वृद्धरित्यनेन "पौत्रादि वृद्धम् " [२] इति वृद्धसंज्ञा युवमिरित्यनेन "वश्य." [३-५] इत्यादिसूत्रेषुक्ता युवसंज्ञा दुःस्थैरित्यनेन “संज्ञा दुर्वा" [ ६-१०] इत्यादिसूत्रोक्ता दुसंज्ञा वाद्यादित्यनेन “वाद्यात्" [११] इति सूत्रं चासूचि ॥ ते प्रेरिताः पैङ्गलकाण्वजैह्वाँकातादिभिर्दारितकातयुक्तैः । त्रातुं पुरी धानपतींनु राष्ट्रपतीं ततः सौपगवाः प्रज॑हुः ॥ ३८ ॥
३८. ततोनन्तरं सौपगवा औपगवैर्भटभेदैर्युक्तास्तेवन्तिभटा राष्ट्रपती राष्ट्रपतेर्देशपतेर्यशोवर्मण इमां पुरीमुजयिनी त्रातुं प्रजह्वः शत्रुभिः सह युयुधिरे । यतो धानपती नु धनपतेर्धनदस्येयं धानपत्यलका महधिकत्वादिना तत्तुल्याम् । किंभूताः सन्तः । प्रेरिताः । कैः पैङ्गल. काण्वाः पिङ्गलस्य काव्यस्यर्षेश्छात्रा जैह्वाकाताश्च जिह्वाचपलस्य
१ सी पैगलाकात्वजै. २ बी डी गलिका'. ३ बी हाकांतादिदिमि', ४ ए जहः । त'.
__१ ए °था दुस्यै . २ ए बी वंश इ. ३ ए का दुःसं. ४ ए सी पते'. ५ ए जयनीं. ६ ए जहुः श. ७ ए °ती भुवन'. ८ सी तेर्न धन'. ९ए काव्य. १० बी सी डी काण्वस्य.