SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८० व्याश्रयमहाव्ये [जयसिंहः) अपारयत्प्रक्रिमताध्यवास्यदविद्यतालं क्षमते स चाप्नोत् । ऐषीदवेदीयुयुजेविदच्च संभाषितुं तं नृपतिर्न मम्लौ ॥३६॥ ३६. नृपतिर्जयसिंहस्तं भटौघं संभाषितुं सस्नेहमालपितुमवेदीदज्ञासीत्तथा संभाषितुमलं समर्थोत एव संभाषितुमैषीदभ्यलषदत एव संभाषितुमध्यवास्यदुदयच्छदत एवं च संभाष्यभटसामीप्यप्राप्त्या संभाषितुमानोत्संभाषणं भाषणमर्हति स्म । अत एवं च संभाषितुं प्राक्रमत प्रारेभे । तथा संभाषितुं युयुजे संबद्धोभूत्संततं संबभाष इत्यर्थः । तथा संभाषितुमविदच्च लेभे न केनापि निषिद्ध इत्यर्थः । तथा संभाषितुमविद्यतासीनिपतदत्रादिभयं मुक्त्वा संभाषणे स्थिरोभूदित्यर्थः । तथा संभाषितुं क्षमते स्म संभाषणं सोढवान्संभाषणेन न श्रान्त इत्यर्थः । अत एव संभाषितुं न मम्लौ संभाषणेन न म्लानवानित्यर्थः । अत एव च संभाषितुमपारयत्संभाषणं परिपूर्णीचक्रे ॥ खनितुमशकत् । अभ्यष्णोत् । जज्ञे । प्रारभत । विलेभे । विषेहे । अर्हति । जग्लौ । जघटे । आसीत् । समर्थः ॥ संभाषितुमपारयत् । अध्यवास्यत् । भवेदीत् । प्राक्रमंत । अविदत् । क्षमते । आमोत् । मम्लौ। युयुजे । अविद्यत । अलम् । इच्छार्थेषु । ए(ऐ)षीत् । इत्यत्र "शकएष०" [ ९० ] इत्यादिना तुम् ॥ विंशः पादः॥ १बी प्राकृम. सी त्माकम. डी पाचमवाध्य. २ सी डी ३ बी पितुं नृ. सी डी °षि तं. । एषी. १ डी टौघे सं°. २ ए डी "षितुमै'. सी षितुंमै'. ३ सी डी वास. ४ बी सी डी व सं. ५ सी डी षणम. ६ सी डी व सं. ७सी डी तुं क्षम. ८ ए भाषिणं. ९ डी त्यर्थात ए. १० सी पे एवं संभावितुं अ. ११ ए मत् । अ°, १२ बीते । प्रामो'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy