________________
१७८
व्याश्रयमहाकाव्ये
[जयसिंहः]
तिर्यकृत्वा । तिर्यकारम् । अत्र "तिर्यचा." [ ८५] इत्यादिना क्त्वाणमौ ॥
अङ्कतोभूय । पार्श्वतोभावम् । पृष्ठतःकृत्य । पार्श्वतःकारम् । नानाभूय । नानाभावम् । नानाकृत्य । नानाकारम् । विनाभूय । विनाभावम् । विनाकृत्य । विनाकारम् । द्विधाभूय । अद्विधाभावम् । द्विधाकृत्यै । द्विधाकारम् । अत्र “स्वाङ्ग." [ ८६ ] इत्यादिना क्त्वाणमौ ॥ चख्नुस्तथाज्ञामनु केपि तूष्णींभावं कुशीपाणय आशु वप्रम् । तस्थौ यथा द्वेपिजनोपि तूष्णीभूयैव तत्साहसदर्शनेन ॥ ३३ ॥ ___३३. कुशीपाणयः सन्तः केपि भटा आज्ञामनु नृपादेशेन हेतुना तूष्णींभावं वप्रभङ्गप्रच्छन्नताथ मौनेन स्थित्वाशु तथा वप्रं चख्नुर्व्यदारयन् । यथा तत्साहसदर्शनेन तेषां भटानां दुष्करकर्मालोकनेन द्वेषिजनोपि तूष्णीभूयैव तस्थौ । तत्साहसदर्शनोत्थविस्मयातिरेकाद्यथा क्षणं निर्वचनक्रियोभूदित्यर्थः ॥
तूष्णीभूय । तूष्णींभावम् । अत्र "तूष्णीमा" [ ८७ ] इति क्त्वाणमौ ॥ केप्येकशोपि प्रभुकार्यमन्वग्भावं विदध्याम समेपिणोयुः । अमूनवेमेत्यभिकाशिणोन्वग्भूयान्वसर्पन्नपरे च तूर्णम् ॥३४॥
३४. केपि भटा अयुर्वप्रभङ्गाय गताः । किंभूताः सन्तः । समेषिण इच्छन्तः । किमित्याह । वयमेकशोप्येकाकिनोप्यन्वम्भावं प्रभावनुकूलीभूय प्रभुकार्य वप्रभङ्गं विदध्याम कुर्यामेति । इतिरत्र ज्ञेयः । तथापरे च भटा अन्वग्भूयानुकूलीभूय तूर्णमन्वसर्पन्वप्रभ१ सी डी कुवप्रं चख्नु°. २ बी समिषि'. १ डी 'नाका'. २ ए सी डी °य । द्वि'. ३ सी डी त्य । अं. ४ डी भूयेव. ५ ए शमात्तवि'. ६ सी डी नक्षयों. ७ सी डी °ा आयु. ८ ए भावानु.