________________
[है० ५.४.८३.] चतुर्दशः सर्गः।
१७५ तर्ष च यामावपरेह्नि नामग्राहं मिथोहायिभिरग्रसैन्यैः । सिप्रापयोपीयत मङ्घ नामादेसं(शं) समा वासभुवो गृहीताः २७
२७. अपरेह्नि यामौ प्रहरद्वयं तर्प तर्षित्वाग्रसैन्यैः सिप्रापय उजयिनीसमीपस्थसिप्रानदीजलमपीयत । किंभूतैः सद्भिः । नामग्राहं मिथोह्वायिभिः । तथा मङ्क नामादेशमियं जयसिंहस्येयं समरसिंहस्येति नामान्युच्चार्येत्यर्थः । समाः समस्ता वासभुव आवासस्थानानि गृहीताः ॥
हृत्पेषमायद्भिः । अत्र “परिक्लेश्येन" [ ८० ] इनि णम्वा ॥ वनं वनं वेशम् । विपमप्रवेशम् ॥ अगान्प्रवेशं प्रवेशम् । विषमप्रवेशम् ॥ सरः सरः पातम् । अरण्यपातम् ॥ आपगा आपातमापातम् । अरण्यपातम् ॥ तटं तटं प्रपादम् । अनध्वपादम् ॥ अपः पादं पादम्। अनध्वपादम् ॥ द्रुमं दुमं स्कन्दम् । फलाद्यवस्कन्दम् ॥ अनापतन्तमास्कन्दमास्कन्दम् । फलाद्यवस्क. न्दम् । अत्र "विशपत." [ ८१] इत्यादिना णम्वा ॥ वनं वनं प्रविश्य । वनं प्रविश्य प्रविश्य । इत्यादी नि पक्षोदाहरणानि स्वयं ज्ञेयानि ॥
यामौ तर्ष पयोपीयत । यामतर्ष पिबद्भिः । मुहूर्तमत्यासम् । क्षणोसमुत्फ लद्भिः । अत्र “कालेन." [ ८२ ] इत्यादिना गम्वा ॥ नामग्राहम् । नामादेशम् । अत्र “नाम्ना०" [ ८३ ] इत्यादिना णम्वा ॥
१बी मैन्यः । सि'.
१ डी 'यं वेपतेषि. २ ए °हीतानि ॥ ह. ३ एम् । प्रवेशम् । अं. ४ डी शं । वि०. ५ सी डी अध्वनपा. ६ डी अध्वनपा. ७ ए नं प्र°. ८ सी डी श्य । प्रविश्य । इ. ९ सी डी यामो त°. १० सी डी °मकर्ष. ११ डी त्यासमु. १२ ए णात् समुप्तल'. १३ सी डी मग्रहणम्.