SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १७४ व्याश्रयमहाकाव्ये [ जयसिंहः ] हृत्पेषमतिबंहीयस्त्वेनान्योन्यं संघर्षावृदयानि पिष्ट्वा तथागाब् शैलान्प्रवेशं प्रवेशं पर्वतवासित्वेन तदारोहकुशलत्वादभीक्ष्णं प्रविश्य तथोचैर्विषमप्रवेशं कौतुकादिना विषमं विषमं वनगह्वरादि प्रविश्य विषमं प्रविश्य प्रविश्यं वा तथा वनं वनं तरुखण्डं तहखण्डं वेशं फलादिलिप्सया प्रविश्याथ तथारण्यपातमारण्यपशुवधाद्यर्थमरण्यमरण्यं पतित्वारण्यं पतित्वा पतित्वा वापगाश्च नदीश्चापातमापातं तथा सरः सरः पातमपश्च जलानि च पादं पादं पानाद्यर्थमभीक्ष्णं गत्वा तथा द्राक् नद्यादीनां तटं तटं प्रपादं विश्रामाद्यर्थमाश्रित्य तथा द्रुमं द्रुमं स्कन्दं छायादिसुखलिप्सया गत्वा तथानध्वपादं मार्गस्य सैन्यैः संकीर्णत्वेन दुःसंचरत्वादमार्गममार्ग गत्वामार्ग गत्वा गत्वा वा तथानापतन्तं श्रान्तत्वेनानागच्छन्तं जनमास्कन्दमास्कन्दमश्रान्तत्वेन शीघ्रगत्वादुल्लङ्घयोलङ्घय तथालमत्यर्थं फलाद्यवस्कन्दं फलपुष्पादि फलपुष्पादि मुषित्वा फलादि मुषित्वा मुषित्वा वा तथोत्फलद्भिरुल्ललद्भिः । किं कृत्वा । क्षणासं क्षणमिति सूक्ष्म कालभेदमतिक्रम्य तथा मुहूर्तं द्विघटीमत्यासमतिक्रम्योत्प्लुत्य क्षणं मुहूर्त वा स्थित्वा पुनरुत्प्लवमानैरित्यर्थः । तथा यामप्रतर्ष प्रहरं प्रतृष्य इतिवाः खल्लस्थं जलं पिबद्भिश्च । वाःशब्द क्लीबेपि केचित् ॥ १ सी "श प. २ ए मं व. ३ बी सी डी 'रुषण्डं. ४ बी सी डी 'रुषण्डं. ५ सी डी °ण्डं च वे'. ६ ए °रः पा. ७ सी गत्वां दमार्गममार्ग गत्वा गत्वा वां तथा ना. ८ डी मार्गममार्ग गत्वा गत्वा वा. ९ए सी डी शीघं ग. १० ए दुर्लङ्घयोल'. ११ ए °दि मु. १२ ए त्वा वा. १३ सी डी त्वा वा. १४ ए सी डी थोत्पलवद्भिरुद्भिः . १५ ए °ण म°. १६ ए दिर्घटा. १७ ए प्रकृष्य. १८ ए त् । वर्ष.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy