________________
१७२ घ्याश्रयमहाकाव्ये
[जयसिंहः ] ऊर्ध्वपूरं पूरिष्यते । ऊर्वशोपं शुष्येत् । इत्यत्र "ऊर्वात्पू: शुषः" [७० ] इति णम् ॥
मातृपूजं पूज्याः ॥ कर्तुः । काकनाशं नङ्ग्यथ । अत्र "व्याप्याच्चेवात्" [१] इति णम् ॥ उपस्कारं लूयात् । इत्यत्र "उपात्" [ ७२ ] इत्यादिना णम् ॥ श्रुत्युपदंशमत्तुम् । श्रुत्योपदश्य । इत्यत्र “दशेस्तृतीयया" [७३] इति
णम्वा
॥
असिप्रहारम् । अत्र "हिंसा." [७४ ] इत्यादिना गम्वा ॥ पक्षे । असिना प्रहृत्येति स्वयं ज्ञेयम् ॥
बलैरुपपीडम् । मूर्युपपीडम् । चित्तोपरोधम् । स्वकरोपकर्षम् । अत्र "उपपीड०" [७५ ] इत्यादिना णम्वा ॥ पक्षोदाहरणानि ज्ञेयानि ॥ अन्ये तूपपूर्वादेव पीडेरिच्छन्ति । रुधकर्षाभ्यां तु कामचारेण । तेन पुरसीमरोधम् । उपपूर्वादपि । चित्तोपरोधम् । अन्योपसर्गपूर्वादपि । ग्रामानुरोधम् । एवं शासनर्षकम् ।
प्रमाणे । कोशयुगेनोत्कर्षम् । क्रोश उत्कर्षम् । कोशाष्टकोत्कर्षम् ॥ समा.. सत्तौ । केशपतया ग्राहम् । अंसेषु ग्राहम् । अत्र "प्रमाण." [ ७६ ] इत्या. दिना णम्वा । पक्षोदाहरणानि ज्ञेयानि ॥ शय्यात उत्थायमयुः किराता यत्किं च नारोहमुपासितुं तम् । नृपोपि पथ्या(भक्या?)लपति स तान्भ्रूविक्षेपमुत्क्षिप्य शिरः प्रसन्नः
॥ २३ ॥
१ ए तमुत्था . २ ए °लपितस्मा ता'. ३ सी डी प्रपन्न:.
. १ ए सी डी नक्षथ. १ ए अशनि प्र. ३ सी डीम् असे. ४ बी अंशेषु.