________________
[है. ५.४.७०.]
चतुर्दशः सर्गः।
१७१
२०. अथ नृपो जयासिंहो द्राक्प्रतस्थे । कीदृक्सन् । विधेयं रणं चित्तोपरोधं चित्तेन चित्ते वोपरुध्य संस्थाप्य विमृशंस्तथासिं स्वकरोपकर्ष स्वकरेण स्वकरे वोपकृष्य समीप आनीय गृहंस्तथा ग्रामानुरोधं ग्रामेण ग्रामे वान्यसैन्यमेलनायानुकूलं स्थापयित्वैवं पुरसीमरोधं च सैन्यं मेलयन् ॥ शैलान्चलैफ्र्युपपीडमस्यन्कुर्वन्नृपाञ् शासनकर्षमग्रे । क्रोशाष्टकोत्कर्षमहन्यहन्यच्छिनत्स पन्थानमनूनशक्तिः ॥२१॥
२१. स राजाहन्यहनि पन्थानं क्रोशाष्टकोत्कर्ष क्रोशाष्टकेन क्रोशाटके वोत्कृष्य परिच्छिद्याच्छिद(न?)ललो । कीदृक्सन् । अनूनशक्तिः शक्तित्रयोपेतोत एव नृपाञ् शासनकर्षमाज्ञयाकृष्याग्रे कुर्वन्नत एव च शैलान्बलैरुपपीडं पीडयित्वा मूर्ध्नि शृङ्गेषूपपीडमस्यन्नितस्ततः क्षिपन् ।। आरोहिणोंसेष्वथ केशपतया ग्राहं भटा अत्वरयंस्तांश्वान् । क्रोशे यथा कोशयुगेन वा व्योम्युत्कर्षमिद्धोधिरुरोह रेणुः ॥२२॥
२२. अंसेषु ग्राहं स्कन्धेषु गृहीत्वाथाथ वा केशपतथा ग्राहं स्कन्धस्थवालपतथा गृहीत्वारोहिणोश्वानारोहन्तो भटा अश्ववारा अश्वांस्तथा वेगेनात्वरयन्यथेद्धः स्फीतो रेणुयोग्यधिरुरोह । किं कृत्वा । क्रोशे कोशयुगेन वोत्कर्षमुत्कृष्य परिच्छिद्य क्रोश कोशौ वा यावदित्यर्थः ।।
१सी "हिणोशेद्यथे के. डी हिणोशेद्यथ. २ डी थास्यात् । क्रो'. ३ सी रेणः । अशेषु . डी रेणः । अरोषु.
१ ए धेयर. २ सी डी टके वोकृष्य. ३ ए बी अंशेषु. ४ डी त्वाग्र्येण वा. ५ए सी डी रोहणो°.