________________
१७०
ढ्याश्रयमहाकाव्ये
[ जयसिंहः ]
तथा मया सह रणे सति यदि स उर्वशोषं न शुष्येच्च मदाणैः पीतरक्तो यचूर्ध्व एव न शुष्ये दित्यर्थः । तदा वो युष्माकमुरु महन्महिम माहात्म्यं मंस्ये ज्ञास्यामि । महिमशब्दो नपुंसकोपि । तदा च यूयं मम मातृपूजं पूज्या मातृवत्पूजनीया इत्यर्थः ।। तद्गच्छ तत्राहमसांवुपैमि यूयं न चेनस्यथ काकनाशम् । . लूयादुपस्कारमसावसिर्वस्तदा नसः श्रुत्युपदंशमत्तुम् ॥ १८ ॥
१८. यदि यूयं काकवन्न पलायिष्यध्वे तदासौ प्रत्यक्षोसिर्वो युज्माकं नसो नासिका अत्तुं भक्षयितुमुपस्कारं विक्षिप्य लूयाच्छिद्यात् । किं कृत्वा । अत्तुं श्रुत्युपदंशं श्रुतिभिः कर्णैरुपदश्योपदंशं कृत्वा केवलानां नासिकानां भक्षणादरुचौ रुचिविशेषोत्पादनायान्तरान्तरा श्रुतीरपि जग्धे(ग्ध्वे?)त्यर्थः । शिष्टं स्पष्टम ॥ श्रुत्योपदश्यात्स्यति नो नसोसिरसिप्रहारं च विजेष्यसेस्मान् । सहासमुक्तैवेति रदोपपीडमोष्ठं दशन्ती दिवि सोत्पपात ॥१९॥
१९. स्पष्टः । किं तु तवासि!स्माकं नसो नासिकाः श्रुत्या श्रवणजात्योपदश्य रोचकं कृत्वात्स्यति त्वं चास्मानसिप्रहारं खङ्गेन प्रेहृत्य विजेष्यसे रदोपपीड कोपादन्तैर्दन्तेषु वोपपीयौष्ठं दशन्ती ॥ चित्तोपरोधं विमृशन्विधेयं गृह्णन्नृपोसिं स्वकरोपकर्षम् । ग्रामानुरोधं पुरसीमरोधं द्राग्मेलयन्सैन्यमथ प्रतस्थे ॥ २० ॥
१ ए °साधुपै. सी डी °सामुपैति यू. २ सी नक्षयका. डी नक्षयकारक'. ३ सी डी क्त्वेपि र. ४ सी डी द्राग्मैल.
१ सी डी स्कारविवक्षि. २ सी डी नाशिका. ३ सीणादिरुचि. डी णादिरु. ४सी डी नाशिका श्रु'. ५ डी प्रपद्यप वि. ६ ए सी पीड्योष्ठं.