________________
[है० ५.४.७०.] चतुर्दशः सर्गः ।
१६९ स क्रौञ्चबन्धं मम गुप्तिबन्धं बन्ध्यो न चेनश्यति जीवनाशम् । प्रेष्यः स वैः पूरुषवाहमाज्ञां वोढा वृथा तं हि न यद्यवेत ॥१६॥
१६. स यशोवर्मनृपश्चेद्यदि न जीवनाशं ननयति जीवन पलायिष्यत इत्यर्थः । तदा स मम मया क्रौञ्चबन्धं बन्ध्यः क्रौञ्चाकारेण बन्धविशेषेण बन्धनीयस्तथा गुप्रिबन्धं बन्ध्यो गुप्तौ कारायां बन्धनीयस्ततश्च हि स्फुटं तं यशोवर्मनृपं यदि यूयं 'नावेत मया बध्यमानं न रक्षेत तदा स नृपो युष्माकं प्रेष्यो दासः सन्वृथा निरर्थकं युष्माकमाज्ञां पूरुषवाहं वोढा पूरुषस्य कर्तुर्वहनं यथा स्यादेवं धारयति पुरुषः सन्प्रेष्यो भूत्वा वृथा युष्मदाज्ञां वह तीत्यर्थः॥ क्रौञ्चबन्धं बन्ध्यः । अत्र “बन्धेर्नाम्नि" [ ६७ ] इति णम् ॥ गुप्तिबन्धं बन्ध्यः । अत्र “आधारात्" [ ६८ ] इति णम् ॥
जीवनाशं नश्यति । पूरुषवाहं वोढा । इत्यत्र “कर्तुर्०" [६९] इत्यादिना णम् ॥ मया स पूरिष्यत ऊर्ध्वपूरं रणे न शुष्येद्यदि चोर्ध्वशोषम् । मंसे तदा वो महिमोरु पूज्यास्तदा च यूयं मम मातृपूजम् ॥१७॥
१७. सोवन्तीशो यदि रणे मया सहोर्ध्वपूरं पूरिष्यत ऊर्ध्वस्य सतः पूरणं यथा स्यादेवं पूरणीभविष्यति । ऊर्ध्वः स्थास्यतीत्यर्थः ।
१ ए बी नक्षति. २ ए वः पुरु'. ३ सी डी मान्यां वो°. ४ ए धचेतः । य.
१ए वो नृ. २ ए शं तक्षति. ३ ए °ष्यति इ. ४ एन्धंक्रौ. ५ ए धनी. ६ सी डी टं य०. ७ए प्रेक्षो दा. ८ सी डी °मान्यां पुरु°. ९ बी सी डी 'ढा पुरु°. १० ए 'न्प्रेक्ष्यो भू°. ११ ए °ति । पौरु. सी 'ति । पुरु. १२ सी डी वंशोपं. १३ बी पूर्णीभ.
१२