________________
[ है ०५.४.६२.] चतुर्दशः सर्गः।
१६७ समूलका कषितुं समूलघातं निहन्तुं द्विषतोसिघातम् । क्षमं यशोवर्मनृपं स्वपोषं पुष्टं च योगिन्यनुदत्तशक्तिम् ॥ १२ ॥ त्वं मित्रयित्वार्चय कालिकाद्या एत्योजयिन्यां पुरि भक्तियुक्तः । यद्यात्मपोषं धनपोषमश्वपोषं पुपुक्षस्यथ बन्धुपोषम् ॥ १३ ।।
१२, १३. हे राजंस्त्वमात्मना शरीरेण धनेनाश्वैरुपलक्षणत्वासैन्यैर्वन्धुभिश्व यद्यात्मानं पुष्टं कर्तुमिच्छसीत्यर्थः । तदा त्वं भक्तियुक्तः सन्नायिन्यां पुर्येत्य कालिकाद्या योगिनीरर्चय । किं कृत्वा । यशोवर्मनृपं मित्रयित्वा मित्रं कृत्वा । अन्यथा ह्युजयिनी त्वया गन्तुमशक्येत्यर्थः । किंभूतम् । योगिनीभिरन्वनुरूपं दत्ता शक्तिर्विद्याबलं यस्य तं तथा स्वपोषं पुष्टं च पराक्रमादिगुणविशिष्टेनात्मना समर्थ चेत्यर्थः । अत एव क्षमं समर्थम् । किं कर्तुम् । द्विषतः समूलकाषं कषितुं सान्वयात्राज्यादुन्मूलयितुमसिघातं च निहन्तुं खड्रेन हिंसितुं समूलघातं निहन्तुं सान्वयान्हिसितुं चेत्यर्थः । अन्यथात्मना श्रिया सैन्यैबन्धुभिश्च सह विनयसीत्यर्थः । तां साह राजेत्युदपेपमाज्यपेषं नु पिंपन्स गिराथ मृया। काली करग्राहमथ स्वहस्तग्राहं यशोवर्मनृपं जिघृक्षुः ॥ १४ ॥
१४. अथ स राजा जयसिंहस्तां योगिनीमिति वक्ष्यमाणरीत्याह स्म । यतः कालीमथ तथा यशोवर्मनृपं च बद्ध्वा स्वपाणिना ग्रही
१ सी डी °म् । क्षेमं. २ सी डी कालका°. ३ ए जयन्यां. ४ ए सी डी राज्येत्यु.
१ सी च्छतीत्य'. डी च्छन्तीत्य. २ ए जयन्यां. सी डी जन्यां. ३ ए नाय. ४ सी डी त्वा । येशो'. ५ ए सी डी 'तं नि. ६ सी डी विनक्षसी'. ७ए 'नक्षसी. ८ ए राजज'.