SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [जयसिंहः ] ६. उ हे नृप किं किमिति नोस्माञ् शाक्रिनिंकारं शपेः शाकिनीशव्दमुच्चार्याक्रोशसि शाकिन्यो यूयमित्याक्रोशसीत्यर्थः । तथा किमित्यत्र पृथ्व्यां भोज्यं भक्ष्यं स्वादुंकारं रुच्यं कृत्वा नात्तासि न भोक्ष्यसे । अथ तथा भोगं वैषयिकं सुखं मृष्टंकारं रुच्यं कृत्वेह जगति किमिति न भोक्ष्यसे । तथा नोस्माकं चर्चया विचारेण किं मुधा निरर्थकमायस्यसि खिद्यसे । विलासिनीनां पिनसीह मृष्टां कृत्वा न किं गीतसुधां हताश । किं योगिनीदर्शमिह व्यराध्यस्त्वं वैरिणीवेदमिवातिमूढ ॥७॥ ७. पूर्वार्धं स्पष्टम् । हेतिमूढेह पृथ्व्यां योगिनीदर्श यां यां योगिनीमपश्यस्तो तां वैरिणीवेदमिव वैरिणी ज्ञात्वेव लब्ध्वेव विचार्येव वा किमिति त्वं व्यराध्योभ्यभवः ॥ __ शाकिनिंकारं शपेः । अत्र “शापे व्याप्यात्" [५२ ] इति ख्णम्वा ॥ स्वादुंकारम् । मृष्टंकारम् । अत्र "स्वादु०" [५३ ] इत्यादिना वा ख्णम् ॥ भदीर्घादिति किम् । मृष्टां कृत्वा ॥ वैरिणीवेदम् । योगिनीदर्शम् । अत्र "विदृग्भ्यः०" [५४] इत्यादिना णम्वा ॥ यदीच्छसि स्वस्य सुखानि यावजीवं चिरायोदरपूरमाशु । तच्चर्मपूरं ननु देहि यावद्वदं बलिं नः परिखादिनीभ्यः ॥८॥ १ डी °ह प्यरा'. १ बी भक्षं स्वा'. २ बी कारं कृष्यं कृ. ३ डी कार कृत्वां कृ०. सी कारं कृस्त्व्यं कृ. ४ वी टं कृत्वा रु. एकार रु. ५ ए "ति ना भो. ६ सी डी यां यो'. ७सी स्तां वै०. ८ बी °णी वैरिणी झा. ९ डी °ति श्वं विरा'. १० सी त्वं विरा. ११ डी किनी का.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy