SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये चतुर्दशः सर्गः । इत्याटमाट निशि कर्म कृत्वा कृत्वाद्भुतं वेश्मनि पूर्वमायम् । स रात्रितुर्ये प्रथमं प्रबोधमानचं देवान् गुरुमग्र आसम् ॥ १ ॥ j १. स नृपो देवान्गुरुं चानर्च । किं किं कृत्वा । इत्युक्तनीत्या नि I श्याटमाटमभीक्ष्णं विचर्य तथाद्भुतं कर्म नागाय तथोपदानरूपमवदातं कृत्वा कृत्वाभीक्ष्णं विधायें तथा वेश्मनि पूर्वं लोकजागरणाप्रथममायमागत्य तथा रात्रितुर्ये रात्रेश्चतुर्थे यामे लोकप्रवोधात्प्रथमं प्रबोधं जागरित्वा तथाग्र आसं देवानां गुरोश्च पुरः स्थित्वा ॥ सर्गेस्मिन्नुपजातिश्छन्दः ।। गजं प्रभाते प्रथमं प्रपद्य पूर्वं समारुह्य हयं कदाचित् । अग्रेधिरुह्याथ वशामटन्स नाज्ञाय्युपासंचरितो जनेन ॥ २ ॥ २. स नृप उषासंचरितो रात्रौ चर्यया भ्रान्तो जनेन नाज्ञायि । यतः कीदृशः । प्रभातेटन् राजपाटिकया भ्राम्यन् । किं कृत्वा । प्रथममन्यक्रियाभ्यः पूर्वं गजं प्रपद्यारुह्य कदाचित्पूर्वं हयं समारुह्याथ तथा कदाचिच्चाग्रे पूर्वं वंशां हस्तिनीमारुह्य । प्रभाते स्वाहि रात्रौ जागर्या शक्यतेयं तु जागरूकत्वात्प्रातरेवोत्थाय राजपीटिकायामगमत्तेनास्य रात्रौ चर्या न ज्ञातेत्यर्थः ॥ १ ए माट नि.. १ सी किं कृ. २ ए डी थोपदा. ३ सी 'वानी. ५ ए 'तु या. ६ बी 'तिच्छन्दः सी तिच्छदं । ग. ८ बी 'टिकायां भ्रा. ९ सी यां ह १० २१ यथा. π°. ४ बी सी य ७ सी 'रिता पादिका.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy