________________
१६०
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
ध्यात्वा । इत्यत्र ‘“प्राक्काले” [ ४७ ] इति क्त्वा | अर्थानुलोम्यात्सूक्रम
भङ्गेनेदमुदाहरणम् । वसन्ततिलका छन्दः ॥
I
नेत्रे निमील्य हसतां वदतां प्रकाश्य
दन्तांश्च मूलकपणाद्यपमाय याताम् । मौग्ध्योद्यमौ नरपतिः पथि कच्छियूनां पश्यन्ययौं निजमलक्षित एव हर्म्यम् ॥ ११० ॥
११०. अलक्षित एव नृपतिर्निजं हर्म्यं ययौ । कीदृक्सन् । कच्छियूनां कच्छोनूपप्रायो देशविशेषोस्त्येषां ते कच्छिनैः काच्छिका ये युवानस्तेषां मौग्ध्योद्यमौ मौग्ध्यं नेत्रनिमीलने हसनरूपं दन्तप्रकाशने वचनरूपं च मौर्यमुद्यमं च तावत्यां वेलायां मूलकपणादिप्रतिदानाय यानं पथि पश्यन् । यतो नेत्रे निमील्याज्ञत्वेन हास्यातिरेकाल्लोचनसंकोचने सति हसतां तथाज्ञत्वादेव दन्तांश्च प्रकाश्य दन्तोद्घाटने सति वदतां वार्तयतां तथात्युद्यमित्वेन मूलकपणादि मूलकमुष्टयादि । अत्रादिपदात्पत्रपुष्पफलाद्यपमाय प्रतिदातुमन्यत्र यातां गच्छताम् ॥
नेत्रे निमील्य हसताम् । दन्तान्प्रकाश्य वदताम् । अपमाय याताम् । अत्र " निमील्यादि ० " [ ४६ ] इत्यादिना क्त्वा वा ॥
इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्ध हेमचन्द्राभिधानशब्दानुशासनद्याश्रयवृत्तौ त्रयोदशः सर्गः ॥
१ एक पथि. २ बी 'लकश्छन्दः . ३ सी 'नः वातं यथा तथा° सी वातं यथा तत्यु ५ बी 'णाद्यत्रा'. आदि. ७ए दिप
कच्छि'. ४ ए डी ६ सी डी ट्या