________________
१५८ व्याश्रयमहाकाव्ये
[जयसिंहः ] विषये किमित्यागृहीथाग्रहं कुरुथोपरुन्द्ध दाक्षिण्ये पातयथावरुद्ध पादादिग्रहणं कुरुथेत्येवंप्रकारेण प्रयतध्वे पाताले नयनायात्यादरं कुरुथेति ॥
संगच्छध्वं निषेवध्वमयध्वं च पुरः पथि । इतीहध्वे मयि यथा यूयं बर्बरकादयः ॥१०६॥ संगच्छध्वं निवेध्वमयेध्वं च पुरोध्वनि । इतीहेवं तथैवासिन्मित्रे मे प्राणवल्लभे ॥ १०७ ॥ १०६, १०७. हे राक्षसा यथा यूयं मयि विषये संगच्छध्वं निषेवध्वं पथि पुरोयध्वं चेतीहध्वे सेवार्थ संबद्धीभवथ तथा सेवध्वे तथा मार्गेग्रतो गच्छथ चैवंप्रकारेण चेष्ठध्वे तथैवास्मिन्मम प्राणवल्लभे मित्रे नागविषये संगच्छेध्वं निषेवेध्वमध्वनि पुरोयेध्वं गच्छेत चेतीहेध्वम् ॥
स्वतः समुच्चये । पतोत्पत रसेत्ययतन्त । पक्षे । जगजयसि रक्षसि शास्सीत्यधिकरोषि ॥ साधनभेदेन समुच्चये । व्योमार्ट तिरोट कूपमटेत्याटुः । अस्य च पक्षोदाहरणं स्वयं ज्ञेयम् ॥ तथा संगच्छस्व प्रमोदस्व श्लाघस्वेत्युच्छसिष्यति । पक्षे । आहते मिन्त उच्छिन्त इति बाधते ॥ तध्वमौ च तद्युष्मदि । यूयं यात सिध्यत नन्दतेतीहध्चे । पक्षे । आगृह्णीथोपरुन्दावरुन्द्धति प्रयतध्वे । संगच्छध्वं निषेवध्वमयध्वं च पुरः पथीतीहध्वे । पक्षे । संगच्छेध्वं निषेवेव.
१बी पुराव'.
१ए °क्षिण्योपेत. २ बी रद्ध पा. ३ ए सी डी गच्छे". ४ सी "सि शा. ५ ए सी डी शा मीत्य. ६ डीटय ति°. ७ ए सी डी रुचे प्र. ८ ए सी डी च्छध्वे नि'.