________________
१५६ व्याश्रयमहाकाव्ये
[ जयसिंहः ] बहुत्वविशिष्टे च युष्मंदभिधेये तध्वमौ हिस्वौ च । देहि देहीत्यादिग्वितिशब्दः संबन्धोपादौनार्थोन्यथासत्त्वभूतार्थवाचिनोराख्यातयोमिथः संबन्धो नाव. गम्येत ॥
व्योमाटाट तिरः कूपमटेत्याटुश्च मक्षिकाः । पतोत्पत रसेत्युच्चैरयतन्तोषरक्षिकाः ॥ १०॥
१००. मक्षिकाश्च व्योमाटाट तिरः कूपमटेत्याटुर्योमाटुस्तिरस्तिरश्चीनमाटुः कूपमाटुरित्येवंप्रकारेणाटुंधेमुस्तथा मक्षिका ऊषरक्षिका ऊषं रैक्षितुमुच्चैरत्यन्तं पतोत्पत रसेत्ययतन्तापतन्नुदपतनरसन्नध्वनन्निति प्रयत्नं चक्रुः ॥
अथाह नागो राजानं जगन्जयसि रक्षसि । शास्सीत्यधिकरोषि त्वं प्रसीदेहि रसातलम् ॥ १०१॥
१०१. नागो राजानमथाह बभाषे । अथशब्दस्य पुरादौ पाठादतीते वर्तमाना । हे राजंस्त्वं जगद्विश्वत्रयं जयसि रक्षसि शास्सि शिक्षयसि चेत्येवंप्रकारेण जगर्दधिकरोषि नियुझे सकलजगत्स्वामीत्यर्थः । तस्माप्रसीद रसातलमेहि ।। प्रसीदेहीत्यत्र "ओमीडि" [ १. २. १८] इत्यल्लुक् ॥
संगच्छस्व प्रमोदस्व श्लाघवेत्युच्छसिष्यति । नागलोकः समग्रोपि नेत्रेन्दौ त्वय्युपागते ॥ १०२॥ १०२. स्पष्टः । किं तु संगच्छख प्रमोदख श्लाघस्वेत्युच्कृसि१ए ब्योगाटा'. २ ए सी डी शास्मीत्य. १५ सी डी मद्यमि०. २ बी दानों. ३ बी गम्यते । व्यो. ४ए 'उमेमु ५ ए रहितु. ६ डी नस'. ७ सी शास्मि शि०. ८ ए सी डी 'दविक'. ९ए डी युक्ते स. सी युक्ते स. १० ए सी डी 'माहि ई.