________________
[है० ५.४.४२.]
त्रयोदशः सर्गः।
१५५
ध्याहार्यः । भृशमभीक्ष्णं वा यूयमत्रैव तिष्ठतेत्येवंप्रकारेणोरगं त्रुवन् । यूयमित्यत्र युष्मदर्थस्य पूज्यत्वविवक्षया बहुवचनम् ॥
विभृध्वं विभृध्वमिति विश्रीध्वमितिवादिनीम् ।
भृत्वोषेण घंटी भूपो झगित्युदपतत्ततः ॥ ९८॥ ९८. स्पष्टः । किं तु विभृध्वं विभृध्वमिति विभ्रीध्वमितिवादि. नीम् । अत्रेवोवसेयः । भरणकाले बुडबुडारवकरणमिषेण भृशमभीक्ष्णं वा मामूषेण यूयं पूरयतेत्येवंप्रकारेण नृपं भाषमाणामिव घटीमूषेण भृत्वा । ततः कूपात् ॥
आदत्स्वादत्व इत्येवमाददीध्वमिति ब्रुवन् । नागायोषघटीं सोदात्समं तेनान्यतो ययौ ॥ ९९ ॥ ९९. स्पष्टः । किं तु हे नाग यूयं भृशमभीक्ष्णं वोषघटीं गृह्णीध्वमिति ब्रुवन् । आदत्स्व इतीत्यत्र विरामविवक्षया न संधिः । इत्ये. वमिति निपातसमुदाय इत्यर्थे ।
देहि देहीति ददामि । धेहि धेहीत्यधात् । याहि याहीति यास्यन्ति । उड्डयखोडयस्वेत्युडयन्ते । एवं भावकर्मणोरपि । हन्यस्व हन्यखेति जघ्ने तटवेतसः । तध्वमौ च तद्युष्मदि । नइयत नश्यतेत्येव नश्यथ । चकारात्प्रसक्तस्य हेः प्र. योगः स्वयं ज्ञेयः । बिभृध्वं बिभृध्वमिति बिभ्रीध्वम् । आदत्स्वादत्स्व इत्येव. माददीध्वम् । एवमन्यास्वपि विभक्तिषु । तिष्ठत तिष्ठतेति स्थेयास्त । अत्र "भृश." [ ४२ ] इत्यादिना सर्वविभक्तिसर्ववचनविषये हिस्त्रौ । तद्युष्मदि १ ए सी घटीभू. १ सी डी तिवा. २ बी डाराव'. ३ ए नृपभा. ४ सी माणमि. ५ सी ति यास्यति या. ६ ए °यस्वे. ७ बी °मौ चैत°. ८ ए सी डी मादिदी.