SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५४ व्याश्रयमहाकाव्ये [जयसिंहः] पणेति भूतकालः प्रत्ययो भविष्यामीति भविष्यत्कालेन प्रत्ययेनामिसंबध्यमानो यथाकालमपि साधुः । बहुवचनादधात्वधिकारविहिता भपि तद्धिता धातु. संबन्धे सति कालभेदे साधवः स्युः । सुखी भविष्यामि ॥ तवोपं देहि देहीति ददामीति वदन्नथ । धेहि धेहीति तमधान्नृपतिः पाणिना भुजे ॥ ९४ ॥ ९४. अथ हे नाग तवोषं देहि देहीति ददामि भृशमभीक्ष्णं वा ददामीत्यर्थः । इति वदन्नृपतिस्तं नागं भुजे पाणिना घेहि धेहीत्यधात्कूपे पतन्तं भृशमभीक्ष्णं वा दधार ।। याहि याहीति यास्यन्ति मक्षिका ध्वनिनेत्यथ । राज्ञा हन्यस्व हन्यस्वेति जघ्ने तटवेतसः ॥ ९५ ॥ ९५. ध्वनिना वेतसाघातशब्देन मक्षिका भृशमभीक्ष्णं वा यास्यन्तीति हेतोरथ राज्ञा तटवेतसः कूपतटस्थवेतसवृक्षो भृशमभीक्ष्णं वा हतः ॥ नश्यत नश्यतेत्येव नश्यथेतीव तद्धनौ । उड्डयस्खोड्डयस्वेत्युड्डयन्ते साथ मक्षिकाः ॥ ९६ ॥ ९६. भृशमभीक्ष्णं वा यूयं पलायध्वमितीवेदृश इव तद्धनौ वे. तसाघातर्शव्दे सत्यथ मक्षिका भृशमभीक्ष्णं वोडीनाः ।। तिष्ठत तिष्ठत यूयं स्थेयास्तेत्युरगं ब्रुवन् । अत्रान्तरेकरोज्झम्पा कूपे निर्मक्षिके नृपः ॥ ९७ ॥ ९७. स्पष्टः । किं तु तिष्ठत तिष्ठतेत्यत्रेतिशब्दो वाक्यसंबन्धाया१ डी "णिनो मु. २ डी 'न्यस्वे . ३ सी डी श्यते'. १ए यं पालय'. २ डी शमभी'. ३ ए सी "त्यपि म. ४ ए डीनः । ति.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy