SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ [ है० ५.४.२८.] त्रयोदशः सर्गः। १४९ श्रद्धानयेयम् । अत्र "काम." [२६] इत्यादिना सप्तमी ॥ अकचितीति किम् । कञ्चित्पणं मुञ्चसि ॥ तदिच्छाम्यनुमन्येथाः प्रार्थये गच्छ संप्रति । अत्रोषार्थ प्रवेक्ष्यामि कूपे वज्रास्यमक्षिके ॥ ७८ ॥ ७८. तत्तस्मादिच्छाम्यहं हे पुरुष वमनुमन्येथाः कूपप्रवेशेनुमतिं दद्यास्तथाहं प्रार्थये त्वं संप्रति स्वस्थानं गच्छ । शिष्टं स्पष्टम् ।। __ इच्छाम्यनुमन्येथाः । प्रार्थये गच्छ । इत्यत्र "इच्छार्थे." [२७ ] इत्यादिना सप्तमीपञ्चम्यौ ॥ सहैव नय मां कुर्याः प्रसादमितिवादिनी। कूपप्रवेशविघ्नोयं वल्लभा मे सुलोचना ॥ ७९ ॥ ७९. नाना सुलोचना । शिष्टं स्पष्टम् ।। संध्यामर्चत्विनं चाचेदिहासीताथ गच्छतु । राज्यन्तेस्सिन्भवान्कि मे चिन्तया हि मुमूर्षतः ॥ ८० ॥ ८०. अस्मिन्निदानींतने रोच्यन्ते रात्रिपर्यवसाने भवान्संध्यां प्रभातसंध्यामर्चत्विनं चादित्यं चार्चेत्तथेहास्मिन्स्थान आसीत तिष्ठेदथाथ वा गच्छतु । हि यस्मान्मुमूर्षतो मे चिन्तया किं न किंचित् । मैच्चिन्तां मुक्त्वा त्वं संध्यार्चनादिस्वार्थं कुर्वित्यर्थः ॥ अथ भूपस्तमित्यूचे रक्षेः खं रक्ष च प्रियाम् । कुर्यां हुल्लडयात्रां किमुतोषं तेर्पयाण्यहम् ।। ८१ ॥ ८१. स्पष्टः । किं तूताथ वा । ते तुभ्यम् ॥ आख्याहि हुल्लडः कोयं ब्रूयास्तस्य च चेष्टितम् । धेहि स्वास्थ्यं न भीधैया दध्याश्वानुमतो मुदम् ॥ ८२ ॥ १ ए सी डी स्वास्थां न. १ डी मन्ये . २ ए डी रात्रान्ते. ३ बी मम चिन्तां.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy