________________
१४८
व्याश्रयमहाकाव्ये
नागैर्दमन आहूयाथोचे वारस्तवैषमः ।
यदि गच्छेद्भवांस्तत्र जीवेन्नागकुलं ततः ।। ७५ ।।
[ जयसिंहः ]
७५. स्पष्टः । किं त्वैषमस्मिन्वर्षे । तत्र हुल्लड़पार्श्वे यदि भवान गच्छेद्यास्यति । ततस्तदा नागकुलं जीवेज्जीविष्यति । यद्वा कालत्रये प्रयोगावेतौ ॥
मां सोप्यचेत्र चेत्रं यास्यसि मोक्षा ( क्ष्या) मि ते पणम् । हिमनं वानयस्यूषं चेत्ततोपि त्यजाम्यहम् ।। ७६ ।।
७६. स्पष्टः । किं तु सोपि दमनश्च । अत्र हुल्लडपार्श्वे ॥ चेन्नाजैषीर्न मादिक्षस्तन्मे श्रद्धानयम् |
ऊषं कच्चित्पणं मुञ्चस्युक्त्वेत्यत्राहमागमम् ॥ ७७ ॥
G
७७. अत्र स्थानेहमागमम् । किं कृत्वा । उक्त्वा । किमित्याह । उ हे दमन चेत्त्वं मां नाजैषीस्तदा मा मां नादिलो हुल्लडयात्रायामूषानयने वा नाज्ञापयस्तत्तस्माच्छ्रद्धाभिलाषो म ऊपमहमानयेयमधुनानेष्याम्यानयाम्यानीतवानेवं चेत्यर्थः । परं कञ्चिदिष्टपरिप्रश्ने । त्वं पणं मुञ्चसीति ॥
यदि गच्छेद्भवांस्तत्र । जीवेन्नागकुलं ततः । अत्र "वर्त्स्यति ०" [ २५ ] इत्यादिना वा सप्तमी ॥ पक्षे । चेत्वं यास्यसि । मोक्ष्यामि ते पणम् ॥ केचित्तु सर्वेषु कालेषु सर्वविभक्त्यपवाद वा सप्तमीं मन्यन्ते । तेन पक्षे आनयस्यूषं चेचतोपि त्यजामि | चेन्नाजैषीर्न मादिक्ष इत्यपि ॥
1
१ ए सी 'नामकु. २ ए लं सतः. ३ एषीमदि° सी डी 'धर्मदि.
१ डी 'मिष्याम्या'. २ ए सी त्त्वं मा ना° ३ बी 'दा मां. ४ बी षो ऊ०. ५ ए सी 'हममा ६ ए सी डी व देत्य'. ७ बी वर्त्सति. ८ सी डी ना स ९ बी मोक्षामि. १० ए पदं स°. डी 'पदं. ११ बी सी 'दं स°.
•