SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३८ व्याश्रयमहाकाव्ये [ जयसिंहः ] योयं हेमन्त आगाम्याग्रहायण्यास्ततोवरे | पुष्पिष्यन्ति ममोद्याने लवल्यः सर्वतोपि हि ॥ ५१ ॥ आगामी पौषमासो यो दशरात्रस्य योवरः । तत्र कर्तास्महे युक्ता मित्रैरुद्यां निकोत्सवम् ॥ ५२ ॥ त्रिंशद्रात्रो य आगाम्यवरे तस्यार्धमासि तु । श्रोतास्मि द्विगुरोर्व्याख्यां पृथग्व्याख्या हिं तन्मम ॥ ५३ ॥ त्रिंशद्रात्रो य उक्तोस्यावरे पञ्चदशाह के | नं स्वप्तास्मीति दमनः सहाध्याय्याब्रवीन्मम ॥ ५४ ॥ २. ५१-५४. मम सहाध्यायी दमनो नाम नागकुमारो ममाग्रेब्रवीत् । किमित्याह । योयमित्यादि । स्पष्टम् । किं तु । अयमैषमस्तनः ः । ततस्तत्र हेमन्ते । आग्रहायण्या मार्गशीर्ष्याः सकाशादवरेर्वाग्भागे । लवत्यो लताविशेषाः । दशानां रात्रीणां समाहारो दशरात्रोवरोर्वाग्भागरूपः । उद्यानं विषयतयास्त (स्त्य ? ) स्याः क्रीडाया उद्यानिका तस्या उत्सवं कर्तास्महे लवलीपुष्पोच्चयनाद्यर्थं करिष्यामः । तथा त्रिंशद्रात्रस्त्रिंशद्रात्रसमाहाररूपो मासोर्थात्कार्तिक आगामी तस्यावरेबग्भागवर्तिन्यर्धमासि त्वर्धमासे पुनरहं गुरोरुपाध्यायात् । द्वौ वारावस्या द्विर्व्याख्यां श्रोतास्मि । पौपाद्यदशरात्रे ह्युद्यानिकोत्सवेन व्याख्याभङ्गो भावीत्यत्र द्वे व्याख्याने भणिष्यामीत्यर्थः । तत्तस्माद्धेतोहिं स्फुटं मम पृथगन्यसहाध्यायिभ्यो भिन्ना व्याख्या भविष्यति । । त्रि. ३ ए सी डी १ ए सी डी 'द्यानको . न सुप्ता १ ए सी डी धासिका. डी 'द्रात्र ४ सी मासे. २ सी डी हि तान्मनः २ . तासाहे व सी डी 'साहे. ५ बी वस्यां द्वि०, ३ ए सी
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy