SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ [है. ५.४.७.] त्रयोदशः सर्गः। १३७ त्वं चेत्प्रसन्नः सिद्धा में विद्या । इत्यत्र "संभावने सिद्धवत्" [४] इति सिद्धवत्प्रत्ययाः ॥ अद्य यावद्धृशमदा यावजीवं च दास्यति(सि)। प्रीतिं ममेति संतुष्टो गुरुमा पर्यपाठयत् ॥ ४८॥ ४८. कीडक्सन । संतुष्टः संतोषवाक्यं भणन्नित्यर्थः । कथमित्याह । अद्य यावदद्यतनं दिनं यावद्भशमत्यर्थ मम प्रीति विनयादिना प्रमोदमदास्तथा यावजीवं च दास्यसि । यावज्जीवसि तावदास्यसि चेति ॥ अतीता याष्टमी तस्यामनि(न)ध्यायोजनिष्ट यत् । यापि चागामिनी तस्यामनि(न)ध्यायो भविष्यति ॥४९॥ तद्न्तावा य आवेश्मास्यावरार्धपि संहिताम् । गुणयिष्यामि तातैवं ब्रुवन् गुरुमरञ्जयम् ॥ ५० ॥ ४९, ५०. स्पष्टौ । किं तु तत्तस्मादनध्यायस्य भूतत्वाद्भविष्यत्वाच्च हेतोरावेश्म वेश्म यावद्योध्वा मार्गो गन्ता(न्ता) मया यास्यते कर्मणि श्वस्तनी । अस्याध्वनोवरार्धेयर्वाग्भागेपि संहिता सप्तशतप्रमाणं ग्रन्थभेदं गुणयिष्याम्यनध्यायद्वयेगुणनेन शास्त्राणां विस्मरणभयाद्यथा सर्वेषां शास्त्राणां गुणनं स्यादिति संहितां प्रयन्मे (ने)न शीघ्रं गुणयिध्यामीत्यर्थः । हे तात गुरो ॥ अद्य यावदृशं प्रती(प्रीति)मदाः। यावजीवं प्रीतिं दास्यसि ॥ आसत्तौ । अतीता याष्टमी तस्यामनध्यायोजनि[८] । यापि चागामिनी तस्यामनध्यायो भविष्यति । इत्यत्र “नानद्यतनः०" [५] इत्यादिना ह्यस्तनीस्व(व) स्तन्यौ न । गन्तावा य आवेश्मास्यावराधेपि संहितां गुणयिष्यामि । इत्यत्र "एष्यति." [६] इत्यादिना श्वस्तनी न । १ सी डी नं या'. २ सी डी श्म या०. ३ ए यम्नेन. ४ बी 'ना स्वस्त'. १८
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy