________________
१३६
व्याश्रयमहाकाव्ये
[जयसिंहः] यद्यधीपे प्रहष्याम इति नित्यं प्रशासितुः।
नाना कनकचूडोहं पुत्रस्तस्य महौजसः ॥ ४५ ॥ ४५. स्पष्टः । किं तु हे पुत्र यदि त्वमधीषे पठिष्यसि तदा वयं प्रहृष्यामो हर्षिष्याम इत्येवंप्रकारेण प्रशासितुः शिक्षयितुः । तस्य रत्नचूडस्य ॥
यद्येष्यति गुरुश्छन्दोध्येष्ये चेच्छोरमेष्यति ।
श्वोध्येष्ये तर्कमप्याश्वित्युक्त्या तातमर्षयः(महर्षयम् ?)४६ ४६. स्पष्टः । किं तु गुरुरुपाध्यायः । छन्दश्छन्दःशास्त्रम् । चेच्वः कल्ये । गुरुररं शीघ्रमेष्यति । तदाहं तर्कमपि न केवलं छन्दः ॥
यद्यादेक्ष्यस्यथाशंसेधीयीय मि(नि)खिलागमान् ।
त्वं चेत्प्रसन्नः सिद्धा मे विद्येति गुरुमस्तवम् ॥४७॥ ४७. अहं गुरुमुपाध्यायमस्तवम् । कथमित्याह । हे गुरो त्वं यद्यादेक्ष्यस्याज्ञापयिष्यसि । अथानन्तरं तदेत्यर्थः । अहमाशंसे संभावये निखिलागमानधीयीय पठिष्यामीत्यर्थः । यतस्त्वं चेत्प्रसन्नो मयि प्रसन्नीभविष्यसि तदा मे विद्या सिद्धा सेत्स्यतीति ।
रणे यदि त्वमायासीदैत्यानजैषम् । यवधी प्रहृष्यामः । अत्र "भूतवच्चाशंस्ये वा" [२] इति भूतवत्सद्वच प्रत्ययाः ॥ पक्षे यद्येष्यति गुरुश्छन्दोध्येष्ये ॥
क्षिप्रार्थे । चेच्छोरमेष्यति । श्वोध्येष्ये तर्कमप्याशु ॥ आशंसाथै । यद्यादेक्ष्यस्यथाशंसेधीयीय निखिलागमान् । इत्यत्र "क्षिप्र." [३] इत्यादिना भविष्यन्तीसप्तम्यौ ॥ क्षिप्रार्थते न(र्थ एते नेति ?) वक्तव्ये भविष्यन्तीवचनं ख(श्व)स्तनीविषयेपि भविष्यन्ती यथा स्यादित्येवमर्थम् ॥ १ सी डी यसि । श्वो'. २ ए 'त्युक्ततो । तम'. ३ सी तातेम. १ सी डी सन्न.