________________
[ है०५.४.२.] त्रयोदशः सर्गः।
१३५ मित्यर्थः । अपरस्त्वाह । आयान्तं पश्याधुनैवागतं जानीहीत्यर्थः । तथाहो तत्र मर्त्यलोके कदा त्वं गमिष्यसीति प्रश्न एकः प्रत्याह । नन्वयमहं गच्छाम्यधुनैव गमिष्यामीत्यर्थः । अपरस्त्वाह । यान्तं मां पश्याधुनैव गमिष्यन्तं जानीहीत्यर्थः । इत्येवंविधा या अन्योन्यमुक्तयस्तच्छालिभिः । शिष्टं स्पष्टम् ॥
कदागा अयमागां कष्यस्येष्याम्यसौ विभो ।
इतीशालापवास्तत्र रत्नचूडोस्ति नागराट् ॥ ४३ ॥ ४३. तत्र भोगा(ग)वत्यां रत्नचूडो नाम नागराडस्ति । कीदृक् । ईशस्य वासुकेरालापः संभाषणा तद्वान् । आलापमेवाह । अहो कदागाः सेवार्थ मत्पार्श्वे कस्यां वेलायामायासीरिति प्रश्ने प्रत्याह] । हे विभो अयमागां तवा(था)हो कहें (पे)ष्यसि । अधुना मस्पाद्गितः पुनः कदागमिष्यसीति प्रश्न आह । असावेष्यामीति । अतिमान्यस्वाद्वासुकित्वकण (किस्तं क्षण?)मपि सु(स्व?)पार्धान्मोक्तुं नेच्छतीत्यर्थः॥
कदायातः । एष आयामि । आयान्तं पश्य । कदा गमिष्यसि । अयं गच्छामि । यान्तं पश्य । इत्यत्र "सत्" [१] इत्यादिना वर्तमानावत्प्रत्ययाः । वावचनाद्यथाप्राप्तं च । कदागा अयमागाम् । कद्देष्यसि एप्याम्यसौ ॥
शङ्खपालकुलोत्तंस त्वमायासी रणे यदि ।
दैत्यानजैषमित्यूचे स्वयं वासुकिनापि यः॥४४॥ ४४. स्पष्टः । किं तु । आयासीरागमिष्यसि । अजैषं जेष्यामि । यो रत्नचूडः । एतेनास्यातिविक्रान्तत्वोक्तिः ॥
१ए कहेंष्यस्येष्या . २ एनजीष.
१ सी अजेषं. २५ °स्या वि०.